________________
१४७
१९7
108
112
116
एकतखविधानम् एतदष्टविधं प्रोक्तमेकभूमिविधानके। विमानं सम[स]यं हर्म्य चालयं वा चाधिष्ण्यकम् ॥५४॥ प्रासादं भवनं क्षेत्रं मन्दिरा(रमा)यतनं तथा । वेश्म च गृहमावासं क्षयं धाम सनातनम् ॥ ५५ ।। वासं गेहमागारं वा सदनं वसितं गृहम् । निलयं तल(लं) कोष्ठं च स्थानं पर्यायवाचकम् ॥ ५६ ॥ विमानस्य तु विस्तारे त्रिभागं चांशकं गृहम् । हर्म्यतारे तु भूतांशं त्रियं(त्रयां)शं गर्भगेहकम् ॥ ५७ ॥ गेहवारे तु सप्तांशं नालीतारं युगांशकम् । नालीवारं युगांशं स्याच्छरांशं गृहविस्तृतम् ॥ ५८ ।। चय(य)व्यासं च रुद्रांशं षड्भाग कोष्ठविस्तृतम् । सैकार्कभागविस्तारे सप्तांशे नालिके गृहम् ॥ ५६ ॥ पञ्चादशांशकं तारे साष्टांशं गर्भगेहकम् । विस्तारे च द्विभागे तु चैकांशं तुङ्गविस्मृतम् ॥ ६॥ शेष कुट्य(व्य)विशालं स्याद्गर्भगेहावृतं तथा। प्रदातल(पाद्वादश)भूरपि कोस्तास(कोष्ठ) वितलान्तं मूलगृहम् ॥ ६१ ॥ अत्र(न्तः)गृह(ह) विमानविधिमाशाप(मशेष) गृहं नालिकाविक(दिम्)। विमानमिदमुक्त(क्तं) स्याद् यमागताराना(थागत) गृहतारम् ॥ ६२॥ यत्तत्कुट्य(ड्य)विशालं तु द्वादशांश(शे) विभाजिते। पञ्चाशं तु बहिःकुर्यात् सा(चा)न्त(न्तः) सप्तांशकं त्यजेत् ।। ६३ ॥ तद्वयोर्मध्यदेशे तु (च) वारथा(द्वारपाद)स्य मध्यमे । एतदहि(हिः) स्थितस्तम्भं तदुच्चान्तरितो(तमु)च्यते ॥ ६४ ॥ तत्पादमध्यमोच्यान्तमङ्गला(न्तं क्षुद्रा)दधिमध्यमम् । एवं तु मध्यमं श्रेष्ठं हर्ये द्वारस्य योगत:(योग्यकम्) ॥६५॥ क्षुद्रहवें तु युक्त्या च कुर्यात्तु शिल्पि(ल्प)वित्तमः । अन्तस्तम्भ(म्भं) विना वापि कुर्याद्वाह्यस्तु पादकम् ॥६६ ॥ विभजेत्पञ्चषष्टाष्ट(ट)हर्म्यपादोदयं तथा । तत्तदेकांशहीनं स्याच्छुद्धद्वारोदयं भवेत् ॥ ६७ ॥
120
124
128
132