________________
१४६
मानसारे तदूचे प्रोवमशेन पूर्ववत्समलङ्कृतम् । प्रथवा मनुभागं तु हHतुङ्ग(ङ्ग) विभाजते ।। ४०॥ सत्रिपादमधिष्ठानं तवयं चाघ्रि भाजिते(तम् ) । तदर्ध प्रस्तरोत्सेधं युगांशांघ्रि(शं प्रोव)तुङ्गकम् ।। ४१ ॥ तदर्थ शिखरोत्तुङ्गं तदूर्ध्वं स्तुपिकमंशकम् । प्रोवमञ्चोर्ध्वमंशेन यथेष्टाधिष्ठानसंयुतम् ॥ ४२ ॥ तदूर्ध्वं च द्विभागेन कर्णहादिमण्डितम् । शेषं च कन्धरं प्रोक्तं पूर्ववत्समलङ्कतम् ॥ ४३॥ अथवा हर्यतुङ्गे तु षोडशांशं विभाजिते । अधिष्ठानं द्विभार्ग स्यात्पादतुङ्गं युगांशकम् ॥४४॥ प्रस्तरं चाश्विनीभागं चोर्ध्व भागं विशेषतः । मनु(मञ्च)भाग(गो) युगांशं स्यात्प्रस्तरं च द्विभागिकम् ।। ४५ ॥ तत्सम प्रोवतुङ्गं स्याधुगांशं शे(शि)खरोदयम् । तदर्ध स्तूपिकोत्तुङ्गं चाष्टवर्गमिति(मतः) स्मृतम् ॥ ४६॥ मूलहर्म्यविशाले तु चाष्टभागं विभाजिते । षड्भागमूर्ध्वतले कुर्यात्तद्विस्तारमिति स्मृतम् ॥ ४७॥ ऊवाङ्ग पूर्व(हय)वत्कुर्यात्सर्वालङ्कारसंयुतम् । तदेवाष्टांशकं चोर्ध्वं पादतुङ्गं द्वयांशकम् ॥४८॥ सदध मञ्चतुङ्गं स्यात्तत्समं कन्धरोदयः । मीशं शिखरोत्तुङ्गं चाध्याशं शिरो(र उ)दयः ।। ४६ ॥ अर्ध्वं पादोदये बन्धुभागमेकांश(शं) चेदिकम् । शेष पूर्ववत्कुर्यादष्टवर्गविदो विदुः ॥५०॥ वेदद्धाष्टभागं स्याजन्मादिस्तूपिकान्तकम् । प्रविष्ठान(न) युगांशं स्यात्पादा(दम)धिक(क) पाल(लि)कांशकम् ॥ ५१ ।। प्रस्तरोवं युगांशं स्यादूचे पादं शरांशकम् । तदूर्वे अंश(शं) मञ्च स्याद्वेदिकोचं शिवांशकम् ॥५२॥ प्रीवतुझं द्विभागं स्याच्छिखरोच्चं वेदभागिकम् । स्तूपिकोचं द्विभागं स्यात्कहादिमण्डितम् ।। ५३ ॥