________________
[अध्यायः
१४४
मानसारे कन्धरं तत्समं कर्याचद्वयं शिखरोदयम्(यः) । खदर्ध स्तूपिकोत्तुङ्गं वक्रं षड्विधमीरितम् ॥ १२ ॥ हर्म्यताराष्टभागैकं हीन वेदिविशालकम् ।
चतुर्भागमेकांशं हीनं प्रोवविशालकम् ।। १३ ।। शिखरालम्बनान्तं च वेदितारसमन्वितम् । लम्बनं [च] त्रिभागै(गमे)कं मध्यनासिविशालकम् ॥ १४ ॥ वत्समं च त्रिपादं वा चार्ध वा निर्गमं भवेत् । मध्यनासिविशाले तु चतुस्त्रिंशद्विभाजिते ॥ १५ ॥ तन्त्रिमागं तु तुझं स्यात्पञ्चाशं त्र्यंशमेव वा। स्थितस्य लुपमूलं तु तदूचे नासिकन्धरम् ॥ १६ ॥ वदर्घ च त्रिभागं च कन्धरं मूर्ध्नि तत्समम् । तत्तुल्यं मौलितुङ्गं स्याद्युक्त्या तत्पालिकान्तकम् ।। १७ ॥ मध्यनास्यर्धमानेन सान्तरं नासिमानकम् । नासिकापाननं सर्व किम्बरीसमलङ्कतम् ॥ १८ ॥ नासितारं(र)त्रिभागैकं कुक्षितारमिति स्मृतम् । भूतादिचित्रसंयुक्तं सर्वालङ्कारसंयुतम् ।। १६ ॥ सम्बनाचे दलं ब[न]ध्वा सर्वालङ्कारसंयुतम् । माघ्राणं(अपाङ्ग) पत्रसंयुक्तं भूज्यै(षणैः) पट्टेरलङ्कृतम् ॥२०॥ करोटोवदलङ्कत्य लम्बने पत्रसंयुतम् । पालिके लम्बनं तत्र श्रेण्या दर्पणवृत्तवत् ॥ २१ ॥ युक्त्यालङ्कारसंयुक्तं शेषं प्रागुक्तवन्नयेत् प्रोवोचं [तु] विभागै(गमे)क वेदिकोदयमीरितम् ।। २२ ॥ तत्समं तु गलाप्रे तु चोत्तरादीनि वर्गकम् । तदेवालम्बनं तत्र गोपानादिश्रियान्वितम् ॥ २३ ॥ वेदितुङ्गसम कुर्यात्तुद्रनासिविभूषितम् । अथवा तुङ्गमाने तु दशभागं विभाजिते ॥ २४ ॥ सपादांशमधिष्ठानं तवयं पादतुङ्गकम् । तर्ध प्रस्तराचं तु चाश्विन्यंशेन] गलोदयम् ।। २५ ॥