________________
एकतलविधानम् एकभूमिविधि वक्ष्ये (धानं च) लक्षणं वक्ष्यतेऽधुना। जातिश्छन्दं विकल्पं तु चाभासं तु चतुर्विधम् ॥ १ ॥ पूर्वहस्तेन संयुक्तं हर्म्य जातिरिति स्मृतम् । छन्दं त्रिपादहस्तेन विकल्पं स्यात्तदर्धकम् ॥ २॥ भाभासं चार्धहस्तेन हादीनां तु मानयत् । एतदायादिशुद्धयर्थ स्थानकादि त्रिधा भवेत् ॥ ३ ॥ उत्सेधे मान(न) गृ(ग्रा)ह्यं चेत्स्थानकं तत्प्रकथ्यते । विस्तारे मान(न) संकल्प्य चासनं तदुदीरितम् ।। ४ ॥ परिणाहे पदे वापि मानं शयनमीरितम् । प्रासनं संचितं प्रोक्तं स्थानकं स्यात्त्वसंचितम् ।। ५ ॥ अपसचित(तं) शयनं चे(स्या)त्तत्तत्रिविधहर्म्यके । स्थानकादि यस्य मूलं बिम्बहर्म्य यथाक्रमम् ॥ ६ ॥ कुर्यात्तत्तद्विमानं(द्विम्बं तु) स्याद्विपरीतं विनाशनम् । समानं समवृत्तं यत्पुरुषं चेति कथ्यते ।। ७ ।। प्रायताकारधिष्ण्यं वा वनितेति प्रकीर्तितम् । पुंविमाने पुरुषं [च] वनितायां(ते) वनितां क्षिपेत् ।।८।। शक्तीनां वनितं(तां) वापि पुरु वापि कल्पयेत् । विस्तारोत्सेधभक्तिश्च पूर्ववञ्चोक्तवत्क्रमात् ।। ३॥ कुर्यात्तदेकभामस्य कन्यसादीनि तुङ्गकम्(कानि)। पागम्य(हत्य)म(चा)ष्टधा हर्म्य गण्यमानमिहोच्यते ॥ १० ॥ उत्सेधे चाष्टभागे तु चैकांशेन मसूरकम् । द्विभागं चाघ्रिकोत्तुङ्ग मञ्चमेकेन कारयेत् ।। ११ ॥
20