________________
१८
१३३
164
168
172
विमानलक्षणम् मानुपूर्व्य कृशं तारं वनिता चेष्टका तथा। शिलाहम्फे शिलायुक्तं चेष्टके चेष्टका तथा ।। ८१ ।। पुंविमानाच(ने च) पुरुष वनिता[यां] वनितां क्षिपेत् । शिलासंग्रहकाले तु ज्ञापयेत्पुत्रियं तथा ॥२॥ एषा मूर्धीष्टका प्रोक्ता लुपालक्षणमुच्यते ।
लुपालक्षणम् स्तूपितुङ्गद्वयं वाथ विमानं च (नस्य) वशो(शादु)दयम् ॥८३॥ एतत्तु शिखरोत्तुङ्गं तदध गलतुङ्गकम् । लुपारूपं शिखरं स्याग्रीवान्तं तल्पवासनम् ॥८४॥ उत्तरादिमृणालान्तं प्रस्तरस्योक्तवद्गले(लम्)। तदूचे दण्डकं कुर्याल्लपमानमिहोच्यते ॥८॥ देवानां मानुषाणां च लुपमानं यथाक्रमम् । अम्बरं च व्ययं(वियज)ज्योतिर्गगनं च विहायसि(यश्च) ॥८६॥ अनन्तं चान्तरीक्ष च पुष्कलं चाष्टधालुपाः । देवानां हर्म्यके कुर्यादुक्तमेवं पुरातनैः ॥७॥ मही ज्या काश्यपी चौणी चोर्वी गोत्रा वसुंधरा । वसुधा चाष्टधा प्रोक्ता कारयेन्मानुषालये ॥८॥ सर्वेषां देवतायोग्यं नराणां चोक्तयोग्यकम । सुराणामुक्तमानं यन्मत्यैस्तव्य(व्यं) यनतः ॥८६॥ शिखरोदयतत्तुल्यं विस्तारोमतमम्बरम । अष्टांशं चैकहीनं तु विस्तारोन्नतो(त) वियत् ॥१०॥ सप्तभागेकहीनं तु विस्तृतं ज्योतिर्मानतः । षट्(इ)भागैकहीनं तु विस्तारं गगनस्य(नं च) स्मृतम् ।।६१ ॥ पचभागेकहीनं तु विस्तारं तद्विहायसि । चतुर्भागेकहीनं तु चानन्ते तद्विशालकम् ॥२॥ उत्तुङ्ग त्रित्रिभागेकहीनं तारा(रमा)न्सरिक्षकम् । तुझे अंशैकहीनं स्याद्वा(व्या)सं पुष्कलमीरितम् ॥६३ ॥
176
100
184
188