________________
१३२
मानसारे
अिध्यायः
140
144
_
148
शुद्ध मिश्रं च संकीर्ण विमानं त्रिविधं भवेत् । एकद्रव्यं तु शुद्ध स्याद्विद्रव्यं मिश्रहर्म्यकम् ॥६६॥ . त्रिद्रव्यं हर्म्य(म्य) संकीर्ण शिलांचे(ले)ष्टकदारुण(णा)म् । एकद्रव्येण युक्तं च कुर्याच्छिल्पि(ल्प)वित्तमः ॥ ७० ॥
स्तूपिकीलम् स्तूपिकीलायतं तारं लक्षणं वक्ष्यतेऽधुना। ऊर्ध्वभूम्या यथापाढं तस्यायाम(म) समं तु वा ॥ ७१॥ गलोचाध्यर्धतुङ्गं वा स्तूपिकीलायतं तथा । तद्विष्कम्भसम(म) व्यासं स्तूपिकीलस्य मूलके ।। ७२ ॥ अथवाङ्गुलमानेन कीलमूल विशालकम् । त्रिचतुर्विशाङ्गलं लोहे दारुकीलं तु(वा) पूर्ववत् ॥७३॥ कीलायाम त्रिभागैकं मूले वेदाश्रमीरितम् ।। मध्ये चाष्टाश्रसंयुक्तं चाप(ग्रे) वृत्ताकृतिस्तथा ।। ७४ ।। एकालाप्रविस्तारं मूलाग्रान्तं क्षयं(य)क्रमात् । अथवा शिखराकारं कीलं मध्याकृतिस्तथा ॥७५ ॥ स्तूपिकीलविधृता(स्तृतिः)त्रिगुणा स्यात्
बहिश्वरणादैर्घ्यमुक्तम् । कीलाधारविस्तृतार्ध(ध) तद्धनं
तत्कीलमूलमथ तत्र योज्यम् ॥ ७६ ॥ ताम्रजं चायसं दारु[ज] लभेत कीलं प्रकल्पयेत् । खदिरं खादिरं चैव तिन्त्रिणी खारमेव च ।। ७७ ॥ उक्तवदारु संगृह्य स्थपतिः स्थापकैः सह । तत्काले ज्ञापयेद्विद्वान् स्तूपिकीलस्य वक्रकम् ॥ ७८ ॥ ऋज्वङ्गं च न भिन्नानि(नं च) तक्षणात्तक्षकेण तु । स्तूपिकीलमिदं प्रोक्तं तदूर्ध्वष्टकलक्षणम् ॥ ६ ॥ मानं प्रागुक्तवत्कुर्यात्पुंस्त्री चेष्टकां विदुः। मूलानं च समतारं तु चेष्टका(क) पुरुष(पं) स्मृतम् ॥८॥
152
156
1601