________________
१८)
१३१
.
112
116
120
विमानलक्षणम् त्रिहस्तं भूपतीनां च सार्धत्रि[हस्तं] तु भूसुरा[णा]म् । तैत(ति)लानां चतुर्हस्तं स्तूपितुङ्ग प्रकल्पयेत् ।। ५५ ।। पाडशैकांशकं कृत्वा पालिकाकुड्गलं कृतम् (लान्तकम्) । साधीशं पालिकोच्यं स्यादीशं वाजनं भवेत् ॥ ५६ ॥ पद्मतुङ्ग त्रिभार्ग च कन्धरं चैकभागिकम् । अर्धेन कम्पपद्म स्यात्कुम्भतुङ्गं द्वयांशकम् ॥ ५७ ।। ऊर्ध्वं च सार्धभागेन दल(दलिक)पद्म प्रकल्पयेत् । त: च त्रिभागेन तद्दण्डोदयमीरितम् ।। ५८॥ प्रधाशं कम्पपन स्याद्वाजनं चोप(चार्ध)भागिकम् । तदूर्ध्वं कम्पपद्मं च सार्धभागेन योजयेत् ॥ ५६ ।। द्विभागं कुजलोत्तुङ्गं दण्डतुङ्गस्य मध्यमे । यथालङ्कारयुक्तं चेत्पद्मकेसरमावृतम् ॥६॥ अथवा स्तूपिकोत्तुङ्गं दण्डमानेन कारयेत् । पालिकोत्तुङ्ग(ॉ) दण्डेन पद्मतुङ्गं त्रिदण्डकम् ।। ६१ ॥ कन्धरं चैकदण्डं स्यात्कुम्भीच्या(च्यम)द्विदण्डकम् । एकदण्डा(ण्डमू)षटुं स्याद्विदण्डं कुडलोदयम् ।। ६२॥ शेषं तन्मध्यदण्डं स्यात्पूर्ववत्समलङ्कृतम् । शिर(रस्) तारे(रं) तु भूतांश वॉशं पालिकायतम् ॥ ६३ ।। तद्विशाले तु भूतांशं सार्धवेदांश(शं) विस्तृतम् । अन्जतारं त्रिभागैकं(गं च) तत्रिभागैकभागिकम् ॥६४ ॥ पग्रस्योपरि कर्ण स्यात्तत्रिधा कुम्भविस्तृतम् । कुम्भतारं नवांशैक(शं च) भाग(ग) दण्डविशालकम् ॥ १५ ॥ दण्डतारं त्रिधा पालि तत्र(था) भागैक(क) कुजलम् । महाब्जा(ब्जम)ष्टदलं कुर्याच्छंषं युक्त्या प्रयोजयेत् ।। ६६ ॥ तद्वयो(वयं) विहृतं चाधस्तदर्धा(र्धमा)धारपट्टिका । तदर्ध च तथा पर्ट स्यात्तद्वयं पद्मं तस्याथ(धः) ॥६७ ।। शेषं तु कुकलं कुर्याद्विस्तारं युक्तितो न्यसेत् । शिला(ला) वा चेष्टकं दारु लोहं चैव प्रकल्पयत् ॥६८॥
24
128
132
136