________________
मानसारे
[अध्यायः
84
88
92
चुद्रद्वादशभूमिः स्याद्भागमेवं प्रकल्पयेत् । विशाले त्रिंशदंशं स्यादेकत्रिंशं च भागिकम् ॥४१॥ द्वात्रिंशद्विभागं चैव त्रयस्त्रिंशद्विभागिकम् । मध्यमं द्वादशभूमि(म्या) [च] भागमानं विशालके ।। ४२ ॥ द्वात्रिंशतिभागं स्यात्त्रयस्त्रिंशश्च भागिकम् । चतुस्त्रिंशतिभागं च पञ्चत्रिंशद्विशास्तके ॥ ४३ ॥ श्रेष्ठद्वादशभूम्याश्च भागं कुर्याद्विचक्षणः। कर्णपादस्य बाह्ये तु मध्यपादस्य मध्यमे ॥ ४४॥ एवं भागावसानं स्याधुक्तियुक्तं प्रयोजयेत् । मूलादिस्तूपिपर्यन्तं वेदानं चायताश्रकम् ॥ ४५ ॥ अध वृत्ताकृतिं वाथ प्रोवादिशिखराकृतिः । स्तूपिकात्रयसंयुक्त द्वयं वा चैकमेव वा ॥१६॥ चतुरश्राकृति(ति) यस्(यत्) तु नागरं तत्प्रकीर्तितम् । मूलाग्र वृत्तमाकारं तद्वत्तायतमेव का ।। ४७ ॥ प्रोवादिस्तूपिपर्यन्तं युक्ताथा(क्त्याथ) तागाश्रकम् । वृत्तस्याने प्रश्रकं तदूसरी(र)नामकं भवेत् ॥४८॥ मूलाप्रास्तूपिपर्यन्तं प्र(चा)ष्टाश्रकं वा षडश्रकम् । तदनं चायतं वापि प्रीवस्याधी युगाश्रकम् ॥ ४६॥ पूर्ववच्चोर्ध्वदेशं स्याद्राविडं परिकीर्तितम् । समाश्रकशिखायुक्तं चायामे तच्छिवात्रयम् ॥५०॥ यश्रवृत्तोपरि स्तूपि वृत्तं वा चतुरश्रकम् । पद्मादिकुजलान्तं स्यादुक्तवद्वाकृति(ति) न्यसेत् ।। ५१ ॥ सपादरनिमारभ्य षडङ्गलिविवर्धनात् । चतुर्हस्तावसानं स्यात्प्रत्येकं तु चतुर्विधम् ॥ ५२॥ कन्यसादुत्तमान्त(न्तं) स्यादेकाद्यर्कतलान्तकम् । एतेषां स्तूपिकोत्तुङ्गमथजाती(ति)वशो(शादु)च्यते ॥ ५३॥ शूद्राणां चैकहस्तं स्याविहन्तं वैश्यजाति(ती)नाम् । सार्धद्विहस्तमानेन युवराजस्य योग्यकम् ॥ ५४॥
100
104
108