________________
१७]
सन्धिकर्म विधानम्
स्तम्भमध्या (ध्ये) यथेात्सेधं कुर्यादूर्ध्वं विशेषतः । यथालङ्कारया प्रान्ते युक्त्या तत्रैव सन्धयः ।। ५६ ।। शिलास्तम्भं (म्भानां) तु सर्वेषां मेषयुद्धं प्रकल्पयेत् । पादायाम विशालैश्च पूर्ववत्परिकल्पयेत् ॥ ५७ ॥ पादमूल विशाले तु षट्सप्तांश (शं) विभाजिते । एकैकमा (मधिकं वापि पादमूलविशालकम् ॥ ५८ ॥ कुर्याद्वि (द्व) विशालं स्याद्दारुवं शोन्मन (नत ) स्तथा । समं वाथ त्रिपादं वा चार्ध वा कुट्यचो (बो) त्तरे [च] ।। ५६ । विस्तारं तद्यथा कुर्यात्तु प्रागुक्तवन्नयेत् ।
कुट्यवंश (शं) प्रति (ते) वंशं तुङ्गं यत्तु समं भवेत् ॥ ६० ॥ तुङ्गस्य धिकहीनं चेद्विपति (ति) नित्यमावहेत् । पूर्वे । सन्धिदीर्घेषु यन्मानारम्यसंग्रहम् ॥ ६१ ॥ कृट्यस्योत्तर सन्धीनां प्रतिवंशविशालके । सन्ध्यायामं तु संप्राह्यं कुर्यात्प्रागुक्तवत्सुधीः ॥ ६२ ॥ शङ्क (ङ्को)रा (र) थिं च शल्यं च कीलं तु पर्याय (यं) च । वृ (वि)द्धं शूलं च दन्तं च शिखापर्यायवाचकाः ॥ ६३ ॥ सन्ध्या पादविष्कम्भं वसुसप्तषडंशकम् ।
तदे (एकांश (शं) कि (की) लविस्तारं शूलं वारं च मानयेत् ॥ ६४ ॥ शूलकीलद्वयोस्तेषां समतारमुदाहृतम् ।
दीर्घतरमिदं तं [च] समताराप्रकीलकम् ।। ६५ ।। शल्यायामं तु सर्वेषां यथायुक्तं (क्ति) यथाबलम् । कुर्यात्तु सन्धिमध्यस्य कीलपार्श्व तु कीलयेत् ॥ ६६ ॥ फणायामं तु तन्मध्ये पश्चात्कीलं प्रयोजयेत् । कीलाल्फा मूलान्स की लतारं समेन च ॥ ६७ ॥ ऊर्ध्व तत्प्रान्ते छेदयेत्ततकोत्तमः । कीलवारसमं कुर्यात्कलं तु तत्फणामके ॥ ६८ ॥
दन्तत्रयसमायुक्तं मूलान्तं तत्कथाप्रयोः । प्रधादन्तस्य यं (यच्) छेद्यं चोर्ध्वदन्तस्य चोर्ध्वके ॥ ६६ ॥
१२३
112
116
120
124
128
132
136