________________
१२२
मानसारे माधाराधेयमायैश्च सर्व प्रागुक्तवनयेत् । वर्धमानमिति प्रोकं वर्धमाने तु विन्यसेत् ॥ ४२ ॥ अधोभूदारुयोगं च तयोर्ध्व तथा न्यसेत् । महानाद्वैपरीत्यं चेत्सर्वसंपद्विनाशनम् ॥४३॥ वस्मात्परिहरेच्छिल्पी सर्वदारु [च योगतः । दाल्योगक्रमं प्रोक्तं दारुसन्धिरिहोच्यते ॥४४॥ यथारहितसन्धक्य(यः) तथा योग्यं विचक्षणैः । स्तम्भाना दारुयोगेन चोक्तवच्चैव सन्धयः ॥ ४५ ॥ स्तम्भदार त्रिभागेकं तन्मध्ये तु शिखा(खा) भवेत् । तुङ्गवारसमं कुर्यादूर्ध्वं कर्ण शिखान्वितम् ॥४६॥ प्रधः कर्ण मध्ये छिद्रं मेषयुद्धं हि योजयेत् ।। विस्तारे सप्तभागेन त्रिभागाधिकमायतम् ।। ४७ ।। प्रथवा सार्धमायाम विस्तारद्विगुणं तु वा। अथवा कर्णमान वा सन्धिरेतत्(ष) फणायतम्(तः) ।। ४८॥ सर्वपामपि दारुणा सन्धेः प्रान्ते तु योजयेत् । यथेष्टफणसंग्रामं चोदयेद्विरतृतार्थकम् ।। ४६ ॥ मूलाने कीलकं युक्तं प्र(चा)प्राणमि(पाणिरि)ति स्मृतम् । तदेव द्विललाटे च विस्ताराधिचन्द्रवत् ॥५०॥ मध्ये च दन्तसंयुक्तमप्रमूले तु योजयेत् । शेषं तु पूर्ववत्कुर्यान्महावृत्तमिति स्मृतम् ॥ ५१ ॥ एतत्स्व(तेषु) वृत्तपादानां त्रिकर्ण वक्ष्यतेऽधुना । तदेवं(ब) च त्रिकर्ण स्यात्तत्रिचूलिकमेव च ॥५२॥ वस्त्याकृति(ति) समायुक्तं बलात्कीलकसंयुतम् । त्रिकभमिति प्रोक्तं शेषं प्रागुक्तवन्नयेत् ॥ ५३॥ मेषयुद्धे चतुर्दिक्षु चतुःशूलं तु संयुतम् । चतुरप्राधिमध्ये तु पट्टयुक्तं सपट्टक्त् ।। ५४ ॥ दन्तसंयुक्त सन्धिश्च सर्वतोभद्रमीरितम् । एतत्सन्धिविधिश्वाधिं यथाशक्ति यथावलम् ।। ५५ ।।