________________
१६7
११५
112
116
120
प्रस्तरविधानम् नदूर्वाऽधं च सर्वेषां तत्पादं बहिर्निर्गमम् । एकदण्डं द्विदण्डं वा त्रिदण्डं वाथ निर्गमम् ॥ ५५ ॥ भूतरूपगणैश्चैव यक्षविद्याधरं(रैस्) तथा । नरैर्वा नाटकाङ्गे तु कुर्याद्देवालयादि(दी)नाम् ॥ ५६ ।। यक्षविद्याधरादीनां भूपहम्र्ये तु योजयेत् । हान्तरालयाः सर्वे(ोः) नृणां नाटकसंयुतम् ॥ ५७ ।। सर्वेषां मुष्टिबन्धानां कुर्यात्पादै(दान) ऋजुस् (जून) तथा । शेष प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ॥ ५८ ॥ एतत्तु प्रस्तरस्यो— नाटकस्योवंश (स्यां)शवत् । कुर्यादेतत्कपोतं स्यादष्टभागाधिकं तथा ॥ ५ ॥ शेषं तु पूर्ववत्कुर्यात्प्रस्तरं चाष्टभेदकम् । प्रस्तरोचमिति प्रोक्तं प्रच्छादनमिहोच्यते ॥ ६० ॥ प्रासादादीनि(नां) सर्वेषां प्रच्छादनादिलक्षणम् । उत्तरान्तत्रिकान्तं वा वलभी चोर्ध्वमेव वा ॥ ६१ ॥ कपोतान्तकमेवं स्यात्तस्योर्ध्वं प्रस्तरांशकम् । एतत्प्रच्छादनात(न)स्थाने दण्डं चोपरि शाययेन् । ६२ ।। एतद्द्वारवशादीर्घ तस्योपरि जयन्तिकाम् । दारुदण्ड शिला वापि इ(चे)ष्टकेन जयन्तिकाम् ॥ ६३ ॥ प्रथवा दारुजयन्तिश्च शिला चेत्स[ह] दण्डकम् ।। विनादण्डं तथा कुर्यात्पाषाणं फलका(कां) न्यसेत् ।। ६४ ॥ एतत्सर्वालये कुर्याद्देवहर्ये विशेषतः । शुद्धं मिश्रं च संकीर्ण त्रिविधं तद्वशान्न्यसेत् ॥ ६५ ॥ एकद्रव्यं तु शुद्धं स्याद् द्विद्रव्यं मिश्रकं भवेत् । विद्रव्यैस्तु संकीर्ण तज्ज्ञात्वा कारयेद्बुधः ।। ६६ ॥ केवलं चेष्टकाहयें दारुप्रच्छादनम(ना)न्वितम् । शिलाहये शिलानौलिं कुर्यात्तत्तद्विशेषतः ॥ ६७ ॥ कर्ण च पट्टिकायुक्तं मध्यं मध्यावसानकम् । चतुरश्रा(श्रमा)यताअं वा यथा कर्मानुकूलतः ॥ ६८॥
124
129
133
186