________________
११४
मानसारे द्विभागा(गम)न्तरितं चैव निम्नमधुन कारयेत् । तदूर्ध्वऽध्यर्धभागेन प्रतिवाजन(नं) कारयेत् ॥ ४१ ॥ तदूर्वे कन्धरं होशं वाजनं चैकभागिकम् । तदूर्ध्वं गृहं (प्रोव) युग्मांशमेकभागेन वाजनम् ॥ ४२ ॥ वेदांशं तत्कपोतोचमर्धेनालिङ्गमेव च । अंशमन्तरितं चोर्चे निम्नमर्धन योजयेत् ॥ ४३ ॥ अंशेन प्रस्तरं चैव सर्वालङ्कारसंयुतम् । तदेव मूल(लं) गोपानमूर्ध्व मंशेन वाजनम् ॥ ४४ ॥ तदूर्ध्वं पञ्चभागेन कूलिकानिकतुङ्गकम् । तत्प्रदेशे विशेषोऽस्ति नाटकाभि(कै)[प्य] लङ्कतम् ।। ४५ ।। कपोतत्तुद्रनास्यङ्गैः पत्रवल्यादिभूपितम् । प्रस्तरे सर्वदेशे तु मकरादिविभूपितम् ॥ १६ ॥ मकरैर्धमरैर्युक्तं शेषं प्रागुक्तवन्नयेत् । एकदण्डं द्विदण्डं वा चार्धदण्डमथापि वा ।। ४७ ।। जुद्रनासं विशालं स्यात्तुङ्गं गोपानसीमकम् । प्रधःपादवशा[न्न्य स्य(स्य) सर्वेषां तुद्रनासिकम् ॥ ४८ ।। कर्णपादवशात्तुद्रनासि(स) स्तम्भाप्रमर्धकम् । षडधिकं तु विंशांशं भागं तु प्रस्तरोदयम् ॥ ४६ ॥ त्रिभागं चोत्तरोत्तुङ्गमूर्चे अं(च)शेन वाजनम् । तदूर्ध्वं पातुङ्ग(अमंशं) स्याद्वाजनं चैकभागिकम् ॥ ५० ॥ मुष्टिबन्धं त्रिभागं स्यादंशेन वाजन भवेत् । व्यंशं मृणालिकोत्तुङ्गं चांशेन वाजनं भवेत् ॥ ५१ ॥ युगांशं पट्टिकोत्तुङ्गं वाजनं चैकभागिकम् । अर्धेन कम्पमंशेन पद्ममधन वाजनम् ।। ५२ ॥ कपोतं बन्ध(न्धु)भागं स्यादर्धेनालिङ्गमेव च । वाजनं तत्समं तु स्यादंशेनान्तरितं तथा ।। ५३ ।। तदूर्वा चैकभागेन प्रतिवाजन(नं) संयुतम् । नाटके वत्सपादैश्वाधो(ध:)पाद(दं) समन्वितम् ।। ५४ ।।