________________
११२
[अध्यायः
मानसारे उचरो त्रयांशं वा वाजनं चैकमागिकम् । तत्समं क्षुद्रपन स्यान्यं चोर्ध्व महाम्बुजं ॥ १३ ॥ बदूचे वाजनं चैकं धातुभागं कपोतकम् । मालिङ्गमंशकं चैवमेकाधमन्तरितं वथा ॥ १४ ॥ अंशकं प्रवरं चैव साधाशं वाजनं भवेत् । उत्तरोध(ध्व) चतुष्पञ्चषट्सप्ताष्टकं भवेत् ॥ १५॥ बचदेकांशमानेन हर्म्यपादं तु बाह्यके। यन्मानोरम्यमानेन चोत्तर(र)निर्गमं भवेत् ॥ १६ ॥ उत्तराद्वाजनं चैव तत्समं निर्गम भवेत् । वसामी [तत्] समं वापि त्रिपादं निर्गमं भवेत् ॥ १७ ॥ दूचे वाजन युक्तमा तचतुर्थांश(शं) निर्गमम् । कपोवं तत्समं वापि वाजन(निर्गम) तु बहिर्मवेत् ॥ १८ ॥ प्रथ त्रिपादमध वा पादं वा निर्गमं न्यसेत् । मालिङ्गपादबाह्यस्य निम्न(ग)मेवं तु कारयेत् ॥ १६ ॥ तस्मादन्तरितं चोवं तत्समं निर्गमं तु वा । त्रिपाद चार्धमेवं वा प्रति(ति) तत्समं(म)निर्गमम् ।। २० ।। उद्ये वाजनमुख तु निर्गमं पादबाह्यतः । प्रतिं च प्रस्तरं चैव प्रतिवाजनमेव च ॥ २१ ॥ अन्वन्तं पावसानं च विधानं च विधानकम् । एतत्समिति प्रोक्तं पर्यायाख्यानि पण्डितैः ॥ २२ ॥ प्रतिस्पं दलाकारं वाजनं च द्वयांशकम् । वाजनं क्षेपणं वेत्रं पट्टमुत्तर(रं) पट्टिका ।। २३ ॥ कम्प रक (त्रिक) च मन्दादि चान्तरितं पर्यायमेव च । तुखादण्डं जयन्ती [4] फखका पर्यायवाचकम् ॥ २४ ॥ कपोतं वक्रहस्तं च लुपा गोपानकं तथा। चन्द्रमेवेत्तु सर्वाणि(4) प्रोक्तं पर्यायवाचका:(कम्) ।। २५ ।। संग्रहं मुष्टिबन्धं च महलो(लमु)द्धृतहस्तकम् । वसभी धारणं चैवमेव पर्यायवाचकाः ॥ २६ ॥