________________
प्रस्तरविधानम्
१११
प्रस्तरविधानम् प्रस्तरस्य विधिं वक्ष्ये शाखे संक्षिप्यतेऽधुना। अधिष्ठानत्रिपादं वा समं वा पादमधिकम् ॥ १ ॥ अर्धत्रिपादमाधिक्यं तत्समाधिकमेव वा । पड्विधं कुट्टिमोत्तुङ्ग प्रस्तरोदयमीरितम् ॥ २ ॥ अथवा इस्तमानेन देवजातिवशो(शादु)च्यते । सप्तहस्तं समारभ्य सार्धवेदकरान्तकम् ॥ ३ ॥
रिमिकहान्येन षड्विध प्रस्तरोदयम् । देवानां भूसुराणां च भूपतीना(ति)युवराजयोः ।। ४ ।। वैश्यानां शूद्रजातीनां सग(ग्रनि) जातिवशाकमात् । अथवा पादतुङ्गार्ध तत्समं वा विशेषतः ॥५॥ चतुर्भागेकहीनं वा तत्पादाधिकमेव च । मधिकं त्रिपादं वा तत्समाधिकमेव वा ॥६॥ एतत्तु षडविध प्रोक्तं युक्त्या तत्प्रस्तरोदयम् । प्रणवा पादोदये चाष्टभागं कुर्याद्विचक्षणः ॥७॥ सप्तषट्पञ्चभागाब्धित्रिभाग शमेव च । एवं तु षड्विधं प्रोक्तं प्रस्तरोचं मुनीश्वरैः ॥८॥ उत्तरादिप्रदेशान्तं सर्वेषां प्रस्तरोदयम् । कपोतं प्रस्तरं चैव मई प्रच्छादनं तथा ॥६॥ गोपानं च वितानं च वखमी मत्तवारणम् । विधानं च सुपं चैवमेते पर्यायवाचकाः ॥१०॥ प्रस्तरोचादि सर्वेषामङ्गैः सर्वमिहोच्यते । उत्पेषं चैकत्रिशं तु मागं कुर्याद्विचक्षणः ॥ ११ ॥ पोत्तरं सार्धवाशमंशं तद्वाजनं भवेत् । वलमा(भ्योत्सेधं बन्ध्वंशं साधीश वामनं भवेत् ॥ १२ ।।