________________
१५]
स्तम्भलचणम्
स्वर्णसूच(चीं) सदर्भाश्(भी) च घृतचीरेण योजयेत् । धूपदीपं ददे (या) त् पश्चागन्धपुष्पैः समर्चयेत् ॥ २०२ ॥ हिमाद्रिरूपं तत्स्तम्भं ध्यात्वा हस्तेन संस्पृशेत् । ततोऽधिवासनं कुर्यात्स्तम्भं तहेशिकोत्तमः ॥ २०३ ॥ पश्चात्तचकमुख्यैस्तु स्तम्भमुद्धृत्य हस्ततः । वास्तुप्रदक्षिणं कुर्यात्स्वकीयानुचरैः सह ॥ २०४ ॥ सर्वमङ्गलघेोषैश्च स्तम्भस्थापनदेशकम् ।
संप्राप्य हस्ततः स्तम्भमवरोह्य च पश्चिमे । २०५ ।। तत्स्तम्भं पूर्ववदनं (नमा ) धारं प्राच्य संस्थितम् । अधिवासितरत्नानि व्याहृत्यावटतः क्षिपेत् ॥ २०६ ॥ मध्ये तु हेमं (म) निक्षिप्य चैन्द्रे ताम्रं विनिक्षिपेत् । याम्ये तु चायसंस्थाप्य कांस्यं वा वारुणे न्यसेत् ॥ २०७ ॥ सौम्ये तु रजतं स्थाप्य पुष्प (पद्म) रागं तु मध्यमे । पुष्परागमिन्द्रकोष्ठे गोमेधं चाग्निकोणके ।। २०८ ॥ महानीलं च याम्ये तु मरतकं नैर्ऋते न्यसेत् । स्फटिकं वारुणे (प) कोष्ठे तु प्रवालं वायुकोष्ठके ॥ २०६ ॥ सौम्ये तु मौक्तिकं न्यस्य चेन्द्रनीलं तथेशके । तत्स्तम्भं तत्र निक्षिप्य स्थपतिः कर्तृभिः सह ।। २१० ।। सर्वमङ्गलघेोषैश्च ब्राह्मणैः स्वस्तिवाचनम् । अधिवासितकुम्भानि सर्वाण्यादाय शिल्पिकः ॥ २११ ॥ वास्तुप्रदक्षिणं कृत्वा स्तम्भं मन्त्राभिषेचयेत् ।
धूपदीपं दधेत् (द्यात्) पश्चाद्रत्रमाल्यैर्विभूषितम् ॥ २१२ ॥ गन्धपुष्पैः समभ्यर्च्य नैवेद्यं च निवेदयेत् ।
( मन्त्रः )
[नों] स्तम्भ महामेरो वास्तु दद्याथश् (ध्यात्यावच्) चन्द्रदिवारम् (रौ) ।। २१३ ।। अन्यैः(न्यान्) स्तम्भै(म्भां च मूर्ध्ना ते धृत्वा रक्षतु चोन्नतम् । एतन्मन्त्रं पठित्वा तु कुर्यादनुनयं बुधः ॥ २१४ ॥
१०६
408
412
416
420
424
428
432