________________
१५]
स्तम्भलचणम्
नालिकेरं च तालं च बेणु मौनी च किंशुकम् ।
पूगं च पुष्कलं चैव चामलकं च किंशिरि ।। १७५ ।। हरितं च सप्तपर्ण चोर्ध्ववृक्षमुदीरितम् ।
तेषां (तैश्च) देवालयं कुर्यान्नृणां सौः (द्म) विशेषतः ॥ १७६ ॥ व्याघ्र (i) चन्दनरक्त च चन्दनं तिन्त्रिणी तथा । अन्यानि दारुसर्वाणि द्विजातीनां गृहे न्यसेत् ॥ १७७ ॥ तत्तज्जातिद्रुमाभावे ए (त्वे) कजात्या च सर्वशः । वृतस्य मूलं शतश्चा (मूले चा) ग्रे चाग्रं तथैव च ॥ १७८ ॥ भूमिस्पर्शमुखं ज्ञात्वा तदूर्ध्व परभागतः ।
( स्तम्भस्थापनम् )
देवालयादिसर्वषां स्तम्भस्थापनमुच्यते ॥ १७६ ॥ यथाभागावसाने तु स्थापयेदखिलाङग्रिकम् । स्तम्भान्ते स्तम्भयुक्तं चेद्वास्तुवस्तु विनाशनम् ॥ १८० ॥ यद्वास्त्वन्तर्बहिः सूत्रं स्थापयेदृजुसूत्रकम् ।
स्तम्भमध्यात्तु बाह्यान्तं यथापादं तथाश्रयम् ।। १८१ ॥ यत्रदेश (शे) विशालार्ध तत्र दोषो न विद्यते ।
पुष्य (ष्यं) माघं च चैत्रं च वैशाखं चोत्तरायणे ।। १८२ ॥ श्राषाढ श्रावणाश्वी च कार्तिकं दक्षिणायने । सुमुहूर्त सुलने च शुक्लपचे शुभदिने ।। १८३ ॥ स्तम्भमावाहनं कुर्याच्छेषमासे च (चा) भावके । अङ्कुरार्पणकर्मादैा स्थापनान्तं यथाक्रमम् ॥ १८४ ॥ जलाधिवासनं स्थानं कुर्यात्त्वपि सर्वशः । ईशाने नैर्ऋतिकोणे तु मध्ये चाङ्घ्रिकमेव च ॥ १८५ ॥ पादस्थानस्य यद्देशे वस्तुन (स्तो ) बलं यथा । तदूर्ध्वं धारपट्टे स्याद्दण्डाध्यर्ध द्विदण्डकम् ॥। १८६ ।।
घनं च विस्तृतं चैव चायामं तद्यथेष्टकम् । शिलास्तम्भे शिलाधारं दारुस्तम्भे द्रुमस् (मं) तथा ॥ १८७ ॥
१०७
356
360
364
368
372
376