________________
१०६
मानसारे
याम्ये वा पश्चिमे वापि देशे [नि ] पतन्ति मङ्गलम् । ईशं (शे) नैऋ (ऋतिको वा सर्वसंपत्करं भवेत् ॥ १६१ ॥ अनलानिलको वा चान्यथा चान्तरालके । उद्गतमिति तत्र स्यात्सकलानीत्यमङ्गलम् ॥ १६२ ॥ छिन्नवृक्षस्य पतने वृषभं (भ) हय कुञ्जरम् (राणाम्) । निन (ना) दं भवति श्रेष्ठं बाह्यत्वा (ता) ने त्वमङ्गलम् ।। १६३ ।। समीपे (१) स्थितवृत्ता (चां) व हत्वा यदि पतेत्तरुः ।
प्रशुमं तत्समुद्दिष्टो (टं) पतन्ति मनुजेोपरि ।। १६४ ॥
पूर्वे वा चोत्तरे वापि वृक्षास्तत्र पतन्ति चेत् । तत्रादे (दो) तत्क्रमं नास्ति चान्ये ( न्य) दित्तु त्वमङ्गलम् ॥ १६५ ॥ सर्वदोषं समुद्दिश्य शान्तिं कुर्याद्विचक्षणः । पशुप्रहारहोमं च ब्राह्मणान्भोजयेत्ततः ॥ १६६ ॥ एवं शान्तौ कृतायां तु देोषं नश्यति नान्यथा । नराणां मरणं स्याच्चेत्तत्त[त्] शान्तिर्न विद्यते ॥ १६७ ॥ तस्मात्परिहरेद्विद्वान् कुर्याद्दारु ( रोश्च ) संग्रहम् । शयनस्थितद्द्वारूणि स्थपि (ल) कीलादिकं सर्वशः ॥ १६८ ॥ भूमैपदं [स्थाप्य नितच ( नतच) क्रमिति विरचितम् ! स्थित: (त) शयनदारूणि रथमारोपयेत्तदा ।। १६६ ॥ नववस्त्रेण संवेष्टय सर्वमङ्गलघोषणैः ।
अनङ्गाही वाहयित्वा महिषं कुञ्जरं तु वा ॥ १७० ॥ कर्षयेत्तु नरैर्वापि सुमुहूर्ते सुलमके ।
शिल्पशाला प्रवेश्याथ रथात्तदवतारयेत् ।। १७१ ॥
दारुसंग्रहणं प्रोक्तं दारुल तयमुच्यते ।
धूमकं चीर (रिणी) चैव खादिरं खदिरं तथा ।। १७२ ॥
शाकं च निम्बवृक्षं च शमी शाखं तथा मृगम् । एतेषु धारणं वृक्षं श(शा) तवृक्षमिहोच्यते ॥ १७३ ॥
फत (खदि) रं कृतमालं च व्याघ्रकाश्छादना मृगम् । द्राक्षा शाखा च रुद्राणि जम्बूकं शयितेष्वपि ॥ १७४ ॥
[अध्यायः
328
332
336
340
344
348
352