________________
स्तम्भलक्षणम्
मूलं मध्यं चाग्रं च चतुरश्रमथापि वा । अग्रतारसमा(मम) तत्कर्ण(कण्ठ)माना(नम)प्रमन्तकम् ॥ १३ ॥ तत्समं मध्यमाश्रा(ग्रा)न्तं मध्यमाश्र समाश्रकम् । मध्यमाग्रस्य द्वयोः पादमग्रा(प्र)स्य च मा(समा)न्तकम् ॥ १४ ॥ शेषं तत्पादमूले तु चतुरश्राकृतिं न्यसेत् । चित्रकर्ण(ण्ठ)मिति प्रोक्तं तत्र(त) सर्वालयं(ये) भवेत् ॥ १५ ॥ तन्मूले चासनं कुर्यात्पादुकं वा सहाम्बुजम् (जेन)। मूलाग्रे चित्रसंयुक्तमप्रान्ते मुकुलान्वितम् ॥ १६ ॥ तन्मूले पालिकाहं(का हि) स्याद्यथाशोभं तु कारयेत् । अन्तरे चित्रपटुं स्यात्परितो रङ्गलेन च ॥ १७ ।। पत्रादिरत्नपुष्पैश्च एतत्पदॆश्व भूषितम् । मध्याने पद्मपत्रादि ऊर्ध्वा(मूला)धोऽय(प्रे) तु कुड्मलम् ॥१८॥ मूलवञ्चारमने तु चाप्राधः कुड्मलान्वितम् । सर्वालङ्कारसंयुक्त पद्मकान्तमिति स्मृतम् ॥ १६॥ मूले विनासनस्तम्भं चित्रक(स्कोम्भमुदीरितम् । प्राधिकायाममानेन बोधिकादीनि विन्यसेत् ॥२०॥ तत्तत्पादप्रदेशे तु तद्विशालेन मानयेत् । विस्तारं च(रस्य) समु(ममु)त्सेधं त्रिपादं वार्धमेव वा ॥२१॥ अथ पादांशकं चैव यन्मानारम्यमानकम् । दण्डके बोधिका वापि पालिका वाथ चोन्नतम् ।। २२ ॥ द्विदण्डं वा त्रिदण्डं वा चतु:(तुष)पञ्चकमेव वा। एतदायामविस्तारमुन्नतस्य समं भवेत् ॥ २३ ॥ दण्डं सपाददण्डं वा बोधिकाविस्तृत(तिः) भवेत् । एतद् (एक)दण्डं (ण्ड)समं वापि त्रिपादार्धकमेव वा ॥ २४ ॥ एवं तु वीरकण्ठोच्चं विस्तारार्ध विशालकम् । फलको(चमे)कदण्डं वा त्रिपादं वा तथोन्नतम् ॥२५॥ द्विदण्डं वा त्रिदण्डं वा फलकायाममिष्यते । पादतारं चतुर्थाशं तत्समं निम्नकं भवेत् ॥ २६ ॥