________________
६४
मानसारे
स्तम्भलक्षणम्
पादानामपि सर्वेषां स्वक्षणं वक्ष्यतेऽधुना ।
प्रायामं च विशालं च मा (चा) यादि भूषणादिकम् ॥ १ ॥ दारुसंग्रहणं पादस्थापनं च यथाक्रमम् ।
जङ्घा च चरणं चैव स्तली स्तम्भमङ्घ्रिकम् ॥ २ ॥ स्थाणु स्थूयं च पादं च क (स्क) म्भमारणि भारकम् । धारणं द्वादशं नाम पर्यायेोक्तं पुरातनैः ॥ ३ ॥ प्रधिष्ठानोपरिष्ठात्तु चोत्तराधोऽवसानकम् । उपपीठोपरिष्टात्तु जन्मादौ चोत्तरान्तकम् ॥ ४ ॥ पादायामावसानं [तु] च प्र (चा) धिष्ठानादयेन च । द्विगुणं वा सपादार्ध पादोनद्विगुणं तु वा ॥ ५ ॥ द्विगुणान्ता (न्तम)ङ्घ्रिकायामं हस्तमानवशा (शमु)च्यते । सार्धद्विहस्तमारभ्य षट्षङङ्गुलवर्धनात् || ६ || अष्टहस्तावसानं स्याच्चतुर्थाश ( द्वादशम) ङ्घ्रितुङ्गकम् । त्रिचतुष्पभ्वषणमात्रं कुडयस्तम्भ विशालकम् ॥ ७ ॥ तत्तद्विगुणितं वापि त्रिगुणं वा चतुर्गुणम् । एतत्कम्प ( स्कम्भ ) विशालं स्यादथवा तुङ्गमानतः ॥ ८ ॥ मादित्यरुद्रपत्यं (क्य) शरन्ध्रं चाष्टांशकं भवेत् । एकैकं पादविस्तारं तत्तत्पादानमग्रतः ॥ ६ ॥ एतत्पाद विशालं स्यात्तथा ( दा) कार मिहोच्यते । चतुरश्रं ब्रह्मकान्तं स्यादष्टाश्रं विष्णुकान्तकम् ॥ १० ॥ षोडशाश्रं तु वृत्तं वा रुद्रकान्तमिति स्मृतम् । पञ्चाश्रं शिवकान्तं स्यात्षडश्रं स्कन्दकान्तकम् ॥ ११ ॥ मूलादि चाप्रपर्यन्तमेवमाकारमीरितम् ।
एवमाकारपादानां भूले वेदाश्रमेव च ॥ १२ ॥
[ श्रध्यायः
8
12
16
20
24