________________
८१
मानसारे
तदूर्ध्वे कम्पमर्धेन पञ्चाशेन महाम्बुजम् ।
कन्धरं चैकभागेन पद्ममंशेन योजयेत् ॥ ७६ ॥ कुमुदेोषं गुणांशं स्यात्पद्ममंशं तदूर्ध्वके । कम्पमंशेन संयुक्तं कन्धरं तत्समं भवेत् ॥ ८० ॥ तत्समं वाजनं चोर्ध्वं वन्यंशा ( शम) न्तरितं तथा । द्वह्मंशं तत्प्रतिं संयुक्तं वाजनं चैकभागिकम् ॥ ८१ ॥ तस्मादाधिक्यमेकांशं जन्मतुङ्गं कलांशकम् । एकाशं क्षुद्रपद्यचं तदूर्ध्वमंशेन वाजनम् ॥ ८२ ॥ भूतांशेन महापद्मं तदूर्ध्वशे[न] दलान्वितम् । शेषं प्रागुक्तवचोर्ध्व गृ(प्रा) हसिंहा दिभूषितम् ॥ ८३ ॥ एतच्चतुर्विधं ज्ञात्वा पद्मवन्धमुदीरितम् । देवानामपि सर्वेषां देवीनां शम्भोरालये ॥ ८४ ॥ कारयेत्सर्वसंसिद्धौ श्रीसौभाग्य प्रदायकम् । (पद्मबन्धं चतुर्विधम् )
एकविंशांशकोत्सेधं जन्मतुङ्ग (ङ्ग) कलांशकम् ॥ ८५ ॥ एकां पातु तु कम्पमेकेन कारयेत् । भूतांशं कुम्भतुङ्गं स्यादेकाशं क्षेपयं भवेत् ॥ ८६ ॥ त्रियं (त्रयां)शं स्यादधेापयमूर्ध्वे कर्ण शिवांशकम् । . तत्समं कम्पमूर्ध्वे तु द्विभागं पट्टिकादयम् ॥ ८७ ॥ तदूर्ध्वे कम्पमेकांशं कन्धरं चैकभागिकम् । तदूर्ध्वं द्वंशकं पट्टं युक्तमा तत्रैव योजयेत् ॥ ८८ ॥ तदेव तुङ्गभागेन वह्नि (ह्नि) सेापानमीरितम् । एकांश(शं) पद्मतुङ्गं स्यात्पभ्वांशं कुमुदोदयम् ॥ ८ ॥ कम्पमेकं तदूर्ध्वं स्याद्बन्ध (न्ध्वं ) शं पद्मतुङ्गकम् । तदूर्ध्वं कम्पमेते (के) न तदूर्ध्वं द्वंशकैः (कं) गलम् ॥ ६० ॥ क्षेपणं चैकभागं स्यात्पद्ममेकेन कारयेत् । कपोताच(पं) द्विभागं स्यात्कम्पमेकं तदूर्ध्वके ॥ ६१ ॥
[ चध्यायः
160
164
168
172
176
180