________________
88
अधिष्ठानविधानम् त्रिय(त्रया)श्र कुमुदं वापि षडश्राकृतिर् (ति) एव वा। एवमष्टविधं(ष्टाश्रक) कुर्यात्पद्मकंसरमीरितम् ॥ ३९ ॥ सर्वहम्येषु योग्यं स्यात्कारयच्छिल्पि(ल्प)वित्तमः । नवाधिकविंशाशं तत्तथाधिकतुङ्गक स्यात् ॥ ४० ॥ जन्मतुङ्गं तद्विभागं [वा] वेदांशं वप्रतुङ्गकम् । अधीश(शं) पद्मतुङ्गं तु कन्धरं तत्समं भवेत् ॥४१॥ तत्समं चोर्ध्वपद्मं स्यादेकांशं कुमुदादयम् । पद्ममध्यर्ध तथा कम्पं कर्णतुझं द्वयांशकम् ।। ४२ ॥ कम्पमध तथा पद्म पट्टिकोच्चं द्वयांशकम् । तदूधै पद्ममेकांशं चोर्ध्वकम्पं तु तत्समम् ।। ४३॥ मर्धा(ध्य)ध वाथ जन्माचं कम्पमूर्धेऽर्धमेव वा। शेषं प्रागुक्तवत्कुर्यात्तत्तदेतद्विशेषतः ।। ४४ ॥ एकांशं जन्मतुङ्ग स्यादीशं पद्ममेव च । शेषं तु पूर्ववत्कुर्यात्किञ्चिदेवं विशेषतः ।। ४५ ॥ पट्टिके तत्कपोतं वा शेषं युक्तया प्रयोजयत् । एतञ्चतुर्विधं प्रोक्तं पुष्पपुष्कलनामकम् ॥ ४६॥ क्षुद्रमध्ये तु मुख्य तु प्रथमाद्यं तु भूमिकम् । तेन(षु) हर्येषु योग्यं स्यात्कल्पयंच्छिल्पि(ल्प)वित्तमः । ४७ ।। जन्मादिवाजनान्तं स्याद्द्वात्रिंशद्विभाजिते । द्विभागं जन्मतुङ्गं स्यादेकांशे(श)केन वाजनम् ॥४८॥ सप्तांशेन महापद्मं कर्णमंशं तथाम्बुजम् । ऊर्ध्वं कुम्भं तु वेदांशं पद्ममेकेन कारयंत् ।। ४६॥ तदूर्ध्व कम्पमेकांशं त्र्यंशकैर्गलमुन्नतम् । कम्पमंशं गलं चांशं गापानं चतुरंशकम् ॥ ५०॥ प्रालिङ्गमंशकं चोर्चे अं(चां)शेनान्तरितं तथा । प्रतिमुखं तद्वि(द्वि)भागं स्यादूर्ध्वं वाजनमंशकम् ।। ५१ ॥ प्रथैकांशेन समाधिक्यं महाशा(म्बुजा)परि पद्मकम् । जन्मस्या(न उ)परि पा वा शिवांशनांशमाधिकम् ।। ५२ ।।