________________
८०
मानसारे
प्रालिङ्गमंशक चोर्ध्वे चैकांशं वाजनं भवेत् ।
द्विभागं कन्धरं चैव पट्टिकं वाजनां (नमं)शकम् ॥ २६ ॥
तद्देशे पूर्ववद्रूपैः सर्वालङ्कारसंयुतम् । शेषं तु पूर्ववत्कुर्यान्तदेकांशाधिकं तदा ॥ २७ ॥ कुम्भान्तं (म्भांशं) पूर्ववचोर्ध्वे कम्पमेकेन कारयेत । कन्धरं चैकभागं स्यात्तदूर्ध्वे कम्पमंशकम् ॥ २८ ॥ अंशेन कर्णमूर्ध्वे तु वाजनं चैकभागिकम् । पूर्ववत्समलङ्कृत्य तत्तुङ्गकांशमाधिकम् ॥ २६ ॥ पूर्वोत्तर प्रदेशे तु कम्पनं सा (चा) न्तरां (रमं) शकम् । शकं च त्रिपट्टं स्यात्तदूर्ध्वं चान्तरं भवेत् ॥ ३० ॥ प्रतिमं चैवांशमंशं च वाजनं चैव कारयेत ।
पूर्ववत्समलङ्कृत्य शेषं प्रागुक्तवन्नयेत् ॥ ३१ ॥ तैतिलानां च द्विजातीनामालयेषु न्यसेत्क्रमात् । एतत् प्रतिक्रमं नाना तं चतुर्विधमीरितम् ॥ ३२ ॥
(कुमुदबन्धम् )
जन्मादिवाजनान्तं च सप्तविंशांश मुच्छ्रयेत् । द्विभागं जन्मतुङ्गं स्यात्तत्समं चाम्बुजेोदयम् ॥ ३३ ॥ अंशमेकेन (कंच) कम्पं स्याद्वप्रतुङ्गं षडंशकम् ।
भ्रंश (शं) पद्मं च कर्ण च चांशु ( शं) पद्मं तथांशकम् ॥ ३४ ॥ कुमुदेोचं त्रियं (त्रयां)शं स्यात्पद्मतुङ्गं शिवांशकम् । अंशकं पद्मं कर्णान्तं कम्पमब्जां (जमं ) शकं [ भवेत् ] ॥ ३५ ॥ द्विं (i)शं पट्टा (हम) जमंशं च कम्पमंशेन योजयेत् । पूर्वोत्तुङ्गस्य मानेन पट्टिके तु विशेषतः || ३६ || द्विं(ह्मं)शं गोपानसंयुक्तं चोर्ध्वं युक्तमा स्वलङ्कृतम् । केचित्कुमुदकाङ्गे तु त्रिपट्टाश्रममेव वा ॥ ३७ ॥ मध्ये पट्टेर्विशेषं तु पुष्परत्नैश्च शोभितम् । कटका वृतमेव वा शुद्धवृत्तमथापि वा ॥ ३८ ॥
[चध्यायः
52
56
60
64
889
68
72
76