________________
उपपीठविधानम् चतुर्भार्ग पञ्चभागं वा षट्सप्ताष्टकमेव च । पूर्ववनिर्गम प्रोक्तं यन्मानोरम्य(म्य) मानतः ॥१३॥ अथवा हस्तमानेन निर्गमं तत्प्रवक्ष्यते । एकहस्तं समारभ्य चतुर्थाशेन वर्धनात् ॥१४॥ तन्त्रिहस्तावसानं स्यामिर्गमं नवधा भवेत् । अथवा दण्डमानेन चोपपीठस्य निर्गमम् ॥१५॥ दण्डं सार्ध द्विदण्डं वा सार्धद्विदण्डमेव च । त्रिदण्डं चार्धमाधिक्यं चतुर्दण्डमथापि वा ॥१६॥ पञ्चषट्सप्तदण्डं वा दण्डाष्टनवदण्डकम् । निर्गमं चोपपीठ(ठस्य) स्यात्पादबाह्यावसानकम् ॥ १७॥ एतत्तु निर्गमं प्रोक्तं गण्यमानमिहोच्यते। उत्सेधे तु चतुर्विशत्पञ्चांशो(शमु)पानमीरितम् ॥१८॥ एकेन कम्पमित्युक्तं प्रोवाई द्वादशान्तिकम् । कम्पमेकं तु वेदांशं वाजनं कम्पमंशकम् ॥ १६॥ वेदिभद्रमिति प्रोक्तमथवा द्वादशांशकम् । जन्म द्वांशमशकं पनं कम्पमधेन कारयेत् ॥२०॥ पञ्चाश कण्ठमर्धेन क्षेपणं पद्ममंशकम् । बद(मध्य)ध पट्टिकोत्सेधं कम्पमर्धन कारयेत् ॥२१॥ अथवा भागमानेन सार्धाशं पादुकोदयम् । तदूधै तत्समा(मम)ज कम्पमर्धेन कारयेत् ॥२२॥ सार्धपञ्चांशकं प्रावं क्षेपणं चार्धभागिकम् । तदूधै पनमशेन वाजनं चैकभागिकम् ॥२३॥ तदूर्ध्वं सार्धकम्पं स्यायोजयेत्तु विचक्षणः । तदेवाशेन युग्मेन सोपानाम्बुजमेव वा ॥ २४ ॥ कम्पमर्ध तथा कर्ण तदूओं शेन पट्टिका । पञ्चाश(शं) कन्धरं प्रोक्तं कम्पमर्धन कारयेत् ॥२५॥ द्वांशं तद्वाजनोत्तुङ्ग कम्पमधेन कारयेत् । सर्वहर्येषु योग्यं स्यादेदिभद्रं चतुर्विधम् ॥ २६ ॥