________________
मानसारे
[अध्यायः
उपपीठविधानम् उपपीठविधिं वक्ष्ये शाले संलिप्यतेऽधुना। अधिष्ठानोन्नते देशे चोपपीठं हि संश्रितम् ।।१॥ एते(तम्) तत्त्वमधिष्ठानं तुझं तञ्चतुरंशकतम् । विभजेत्त्वादिमांशेन ए(चे)कैकांश(श)विवर्धनात् ॥२॥ सदष्टांशावसानं स्याजन्मादिपट्टिकान्ति(न्त)कम् । एवं हि चोपपीठोपं नवभिर्भेदमीरितम् ॥३॥ प्रथवा द्वादशान्तं वा मध्यभूम्यन्तिकं कमात् । अथवा क्षुद्रहर्ये तु चतुर्भागांशमु(गसमो)नतम् ॥४॥ द्विभार्ग वा त्रिभार्ग वा चतुर्भागमथापि वा। पञ्चा(च)दशोदयं वापि रिन्ति(शान्ति)कादिशराम्नतम् ॥५॥ अथवा मध्यहम्ये तु द्विभागं वा त्रिभागिकम् । चतुर्भागं पञ्चभागं षड्भागावसानकम् ॥ ६॥ शान्तिकं सर्वभूम्य(काम्या)न्तं पश्चधोत्तुङ्गमीरितम् । प्रथवा मुख्यहम्ये तु त्रयं वा चतुरंशकम् ॥ ७॥ पञ्चांश वा षडंशं वा सप्तांशं वावसानकम् । एवं पञ्चविधं प्रोक्तं शान्तिकादिशरोन्नतम् ॥८॥ शुद्रोत्सेधं वापि पादाधिकमेव च(चार्धाधिकम्)। पादोनद्विगुणं वापि द्विगुणं चा(च) विशेषतः ॥ ६॥ मूलहर्म्यस्य पादं (दे) तु वप्रजन्म तु(नो) बाह्यतः । उपपीठनिर्गमं स्माद्भागमानेन वश्यते ॥१०॥ सप्ताष्टनवभागं वा दशमेकादशस्(शम्) तथा । द्वादशैकार्कभार्ग वा चतुर्दशांशकमेव वा ॥११॥ पञ्चा(चोदशांशकं वापि विभजेत्तु विशेषतः । सचदागेकमार्ग वा द्विभार्ग वा त्रिभागिकम् ॥१२॥