________________
मानसारे फलका भाजनाचे तु तदूर्व चेन्द्रकीलकम् । ततः प्रतिमसंयुक्तं स्थापयेत्स्थपतिर्बुधः ॥ ६३ ॥ परितस्त्विष्टकाभिः सहस्रैरौषधैः सह । दृढीकृत्यमथ ज्ञात्वा पुष्पवश्व शोभितम् ॥ ६४ ॥ हादिद्वारसर्वेषां पादमूले वा दक्षिणे। तत्पादमूले(ल)देशे वा तथोपानप्रदेशके ॥ ६५ ॥ कुमुदाप्रे गले वापि विस्तरे प्रकरैः(प्राकार) बुधः । कुड्यस्तम्भे गृहस्तम्भे हर्म्यगर्भ विनिक्षिपेत् ॥ ६६ ॥ तान्य(तदन्यो)त्सेधं तथाभाति भवेत्सर्वविपत्करम् । एवं रुद्राखये गर्भमन्यगर्भमिहोच्यते ।। ६७ ॥ विष्णुधिष्ण्यस्य गर्मान्तं रुद्रचिह्न विवर्जयेत् । प्रागुक्तं द्रव्यसंयुक्तं विष्णुचिह्नानि योजयेत् ।। ६८ ॥ मध्यं चक्रं तु भौ(है)मन भाजनान्तं विनिक्षिपेत् । रौप्येण शङ्ख ताम्रण चापं चैव तु वामके ॥ ६॥ लवासीसेन खङ्ग च वायव्यंन तु दक्षिणे । प्राइखे तार्क्ष्यरूपं च हेमजेन प्रकारयेत् ।। ७० ॥ एवं च विष्णुगर्भ स्यादब्रह्मगर्भमिहोच्यते ।
(ब्रह्मगर्भम् ) यत्र वस्तूनि वास्तूनि ब्रह्मस्थाने विशेषतः ॥ ७१ ।। ब्रह्मगर्भ क्षिपेत्काले तस्य चिह्नं च योजयेत् । मोङ्कारं निर्मितं हेमं(ना) मध्यकोष्ठे तु विन्यसेत् ॥ ७२ ।। हेमजं यज्ञसूत्रं स्यादोङ्कारस्योपरि न्यसेत् । स्वस्तिकादीनि व(ख)र्णेन चतुर्दिक्षु विनिक्षिपेत् ॥ ७३ ॥ मण्डलं (कमण्डलु) वा ततो(त्र) निर्मित ताम्रमे(?)व च । पक्षमालां च ताण कृष्णवर्ण व वामके ॥ ४ ॥
144