________________
148
162
166
गर्भविन्यासविधानम् ब्रह्मगर्भमिति प्रोक्तं प्रतिम तत्स्वरूपकम् । अन्य[था] देवदेवीनां सर्वेषा(र्वासा)मालयादिभिः(पु)॥५॥ तत्तचिन्हानि रूपं च स्वर्णलोहेन निर्मित:(तम्)। पूर्वद्रव्येण संयुक्तं गर्भमेवं विनिक्षिपेत् ।। ७६ ॥
(नरगर्भम्) देवगर्भमिति प्रोक्तं नरगर्भमिहोच्यते । द्विजातीनां च वर्णानां गृहगर्भ यथाक्रमम् ।। ७७ ॥ पूर्वद्रव्यं तु सर्वेषु तत्तचिन्हं च संयुतम् । चक्रं च कण्डलं (कमण्डलु) दण्डं यज्ञसूत्रं च हेमकम् ।। ७८ ॥ प्रोङ्कार(रं) निर्मितं हेमं(म्रा) तञ्चतुर्दिशि मध्यमे । एवं ब्राह्मणगर्भ स्याद्भूपतीनां च वक्ष्यते ।। ७६ ॥ ख(ग)जं खङ्गं च छत्रं च चामरं च चतुष्टयम् । हंमनिर्मितसर्व च चतुर्दिक्षु विनिक्षिपेत् ॥ ८० ॥ तुला हेमेन( हेना च) निर्माय मध्यकोष्ठे तु विन्यसेत् । एवं तु वैश्यगर्भ स्यादनुक्तं शास्त्रमार्गवत् ।। ८१ ॥ लागलं च युगं [चैव] स्वर्णेन मध्यम (शूद्रे च) न्यसन् ब्रह्मरूपं द्विजातीनां भूपानां चन्द्ररूपकम् ।। ८२ ।। विशां वैश्रवणं रूपं शूद्राणां नररूपकम् । एवं तु प्रतिमं प्रोक्तमेतद्गोपरि न्यसेत् ॥२३॥ गृहगर्भमिति प्रोक्तं प्रामगर्भमिहोच्यते ।
___(पामगर्भम् ) प्रामादीनां नगरादीनां पुरपत्तनखवटे ॥ ८४ ।। कोष्ठकोलादि सर्वेषां गर्भस्थानमिहोच्यते । स्थिरवास्तुकुक्षिदेशे [तु] चरवास्तु(स्तोस्) तथापि च ॥८॥ प्रामद्वारस्य योगे वा गर्भश्वभ्रं प्रकल्पयेत् । पुरुषाजलिमात्रे तु श्वभ्रव्यासं तु निग्नकम् ॥८६॥
164
168