________________
190
THE INDIAN ANTIQUARY.
[JULY, 1904.
इत्यमात्यवचसा स वाहिनीप्रेषणं नरपतिर्मुदाशिषत् । अञ्जनाधिकटकं चम्पतिः संनिवेश्य कियतोपि सैनिकान् । दारुणमहरणां चमूं दधत्प्रत्ययात्समिति माधुरं बलम् ॥ प्रस्फुरन्नलिकवर्गनिर्गतप्रौढसीसगुलिकागणैरपि । रंहसा धनुषि संहितेः शरैर्माधुरानुदनुदद्भटच्छटा ॥ माधुरौघमधुनीत दारुणे शाहभूपतिचमूस्तदा रणे । शाहभूहिमरुचेश्चमपतिस्तनिदेशमथ मूर्ध्नि धारयन् । सेतुनाथमतनिष्ट हृष्टमाधूतविप्लवमुपेतवैभवम् ॥ . तेन सेतुपतिनार्पिता मणिश्रेणिकां च कियतीमपि क्षितिम् । शाहभूवलभिदे न्यवेदयथपः पुनरुपागतो बलेः॥ श्रुत्वा तद्राजरामक्षितिपतिविपदुदारबहादरः श्रीशाहक्ष्मापालमौलिर्यवनविदलनोच्चण्डपाण्डित्यभाति । सैन्यानि स्वैरमश्वद्विपखुरजरजोदानधाराभिरद्भिटुंम्पन्ति स्थापयन्ति द्रुतमदिशदयामस्त सेतुं च यातुम् ॥ अथ क्षितीन्द्रो रघुनाथसेतुं प्रातिष्ठताखण्डलविक्रमश्रीः । निषेव्यमाणः पृतनामकाण्डैश्चण्डैः प्रतापैरिव मूर्तिमद्भिः ॥ स्नातः पयोधौ विधिना स रामकोदण्डकोटिव्यतिषङ्गधन्ये । ततः क्षितीन्द्रः सचमूसमूहस्तञ्जानगर्युन्मुखतां दधानः । प्रतिष्ठते स्मानुपमानतेजा हेमन्तलीलामवलोकमानः ॥ पोरैः समुक्तैरिति सेव्यमानस्तञ्जापुरी प्राविशदुर्वरेन्द्रः। , पुष्पस्फुरत्तोरणधोरणीभिर्हिमाम्बुसेकैरपि लोभनीयाम् ॥
ततो निदिष्टस्य बलस्य राजरामावनोदारगुणां जयाम् । उपानयंश्चारवराः प्रवृत्ति सिंहासनोल्लासिनि शाहभूपे ।। बलैर्महाराज भवनिदिष्टैदिल्लीन्द्रसैन्यानि विदारितानि । स राजरामश्च तथाभिगुप्तस्तदश्चति त्वां महती यशःश्रीः ।। दिल्लीपतेः संप्रति यूथपालाः केचिगृहीता दलिताश्च केचित् । विदारिताः केप विभो स्वदीयहताश्च तसिंधुरसैन्धवौघाः ॥ स्वात्मा यदुज्जीवति रक्षति क्ष्मां तत्वत्प्रसादादिति राजरामः । स मन्यते भूवलयामरेन्द्र तदप्रतीपस्तव हि प्रतापः ॥ प्रमोदसान्द्रः क्षितिपालचन्द्रः श्रुत्वेति वाणीमधिगोष्टि तेषाम् । संमानतोहर्षयदाशु चेतस्तस्य प्रसादो न हि जातु वन्भ्यः॥ ग्रामोत्तुङ्गतुरङ्गदन्तिशिबिकाहेमाभिषेकादिभिः सानन्दं कविवृन्दमाकलयतः शाहेशितुः कीर्तयः ।