________________
JULY, 1904.]
RAMABHADRA-DIKSHITA AND THE SOUTHERN POETS.
विपिनं कतिचिदिवं परानपि नीत्वा परिपाल्य चापरान् । परिरब्धभुजो जयश्रिया नृपतिः प्रेक्षत सह्यजातटीम् ॥ उदभूदथ तत्र नन्दनः शरभोजिर्धरणीबिडौजसः । निपुणः परिपन्थिनिग्रहे समरोत्साह इवाकृर्ति वहन् ॥ अथ चोलपतिर्निशम्य तं निकटोपागतमेकभूपतिम् । समराय भयादिमेदुरां पृतनां प्रेषयति स्म सस्मयः ॥ वनवन्हिमिताम्बुजच्छटे विनिकर्तुं रिपुवर्गमुटे । कुपितस्य तदैकभूपतेरचलबूलतया समं चमूः || रथिनो रथिभिस्तुरंगिणो हयिभिर्हस्तिपकांश्च हस्तिपैः । मिमिलुर्ववृधे ततो रणः परितः सुखुवुरस्त्रनिर्झराः || अथ भोसलवंशभर्तुरुद्भटकोपारभटी भटच्छटा । नटति स्म समित्तटे स्फुटा त्रुटितारातिघटा बलोत्कटा ॥ अथ शाहसुतस्य सैनिकैः पुरमाक्रम्यत चोलभूपतेः । वरणप्रसभाधिरोहणैर्भुवि किं साहसिनां दुरासदम् ॥ महसां निधिरित्यमेकभूरमणश्चलपतिं निरस्य तम् । स्वकरेऽकृत चोलमेदिनीमपि तञ्जानगरं तदास्पदम् ॥ उदपादि ततस्तनूभवस्तुलजाराज इति क्षमापतेः । परिवृद्धिमुपानयन्मुदं परिवृद्धिं स दधदिने दिने || धरणीपरिणीतिमूर्जितामय शाहाधिपतेर्गुणादधेः । प्रचकार च निर्ववार च प्रभुमौलिः स हि तत्त्वकोविदः ॥ शुभैर्गुणैस्त्र्यम्बकरायधीरः श्रेयानुदर्काव्यभिचारितर्कः । देशान्तविश्रान्तयशा महीन्दोरसेवताभ्यर्णममात्यमौलिः ॥ त्रयम्बकार्यस्य गुणानुकारी नृसिंहरायस्य तदप्रजस्य । आनन्दरायस्तनुभूरमात्यः प्राप्तोअन्तिकं प्रेमपदं क्षितीन्दोः || सेतुनेतुरधुना विपतिराकर्णितैव यवनेन्द्रयूथपाः । राजरामविषये वितन्वते विप्लवं तदुभयं सुदुःसहम् ॥ भाषितं तदवनीहिमद्युतेराकलय्य नयतत्त्वकोविदः । ऊर्जिताश्रयतया मनोहरामभ्यधत्त स गिरं मिताक्षराम् ॥ सेतुनेतुरवसीदतो विना त्वां परं हि शरणं न दृश्यते । नैष योद्धुमरिभिः प्रगल्भते संधिकर्म तु न तेऽनुमन्वते ॥ कर्तुमर्हसि तदस्य पालनं पर्युदस्तपरिपन्थिमण्डलम् | रक्षणं हि शरणाभिकाङ्क्षिणां त्वत्कुलस्य सहजं गुणं विदुः ||
189