________________
जइ - जीयकप्पो गिहिणोऽवरज्झमाणे सुणमज्जाराइ अप्पणो वावि ।
वारेऊण न कप्पइ जिणाण थेराण उ गिहीणं ।।९६।। व्याख्या गृहिणो गृहस्थस्यापराध्यन्ति अपराधं कुर्वन्ति श्वा मार्जारो वा । आदिशब्दात् गोणादयो वा । आत्मनो वा एते भक्तादिष्वपराध्यन्ति । तेऽपराध्यन्तोऽपि निवारयितुं न कल्पन्ते जिनानां जिनकल्पिकानाम् । स्थविराः स्थविरकल्पिका गच्छवासिनो ये साधवस्तेषां पुनर्गृहिणां गृहेषु श्वानमार्जारादयोऽपराध्यन्तोऽपि निवारयितुं न कल्पन्ते । आत्मनस्तु भक्तादिषु वारयितुं कल्पन्त इत्यर्थः ।।९६ ।। एतेष्वेव काकादिषु प्रायश्चित्तं भणति
कागनिवारणि लहुओ जाव ममत्तं तु लहुग सेसेसु ।
मज्झ सवासा इत्ति व तेण लहुग रागिणो गुरुगा ।।९७।। व्याख्या-काकनिवारणे लघुको मासः । शेषेषु श्वानगोणादिषु निवारितेषु यावत् शय्यातरममत्वेन कल्पस्थकरक्षणेऽपि चतुर्लघुकाः । मम सवासा एकग्रामवासिनः स्वजना वा तेन सज्ञातिकादिषु ममत्वेन कल्पस्थकं रक्षति तथाऽपि चतुर्लघुकम् । अथ कल्पस्थकं रागेण रक्षति तदा चतुर्गुरुका रागिणः । एवं प्रतिकुष्टशिष्यपरिग्रहे सामान्यतश्चतुर्गुरु । अनाभाव्यसचित्तग्रहणेऽपि चतुर्गुरुकमेव । अनेषणीयभक्तादिप्रायश्चित्तं तु अग्रे भणिष्यते। वस्त्रादीनि धर्मोपकरणानि तु परिग्रहो न भवति । तान्येव समधिकानि बहुमूल्यानि मूर्छया वा परिभुज्यमानानि परिग्रहः स्यात् तत्र चतुर्गुरु । एवं द्रव्यपरिग्रहप्रायश्चित्तमुक्तम् ।।९७।। अथ क्षेत्रपरिग्रहप्रायश्चित्तमाह
ओगासे संथारुवसयकुलगामनगरदेसरजे अ।
चत्तारि छच्च लहु गुरु छेओ मूलं तह दुगं च ।।९८।। व्याख्या-अवकाशः प्रतिश्रयदेशः प्रवातादिको रमणीयः तस्मिन् ममत्वं करोति । संस्तारकः संस्तारभूमिः तस्यां ममत्वं करोति । उपाश्रयो वसतिः तत्र ममत्वं करोति । एवं कुले कुलं-कुटुम्बं ग्रामनगरदेशाः प्रसिद्धाः तेषु, राणकभुक्ती राज्यम्, सा पुनर्भुक्तिरेकविषयो(या ?)ऽनेकविषयो(या ?) वा भवेत् । तत्र ममत्वं करोति । एतेष्ववकाशादिषु ममत्वकरणे क्रमेण प्रायश्चित्तमिदमुत्तरार्दोक्तमवगन्तव्यम् । यथा-अवकाशममत्वे चतुर्लघु। संस्तारकममत्वे चतुर्गुरु । उपाश्रयममत्वे षड्लघु । कुलममत्वे षड्गुरु । ग्रामममत्वे छेदः । नगरममत्वे मूलम् । देशममत्वे अनवस्थाप्यम्। राज्यममत्वे पाराधिकम् । एतत् क्षेत्रपरिग्रहप्रायश्चित्तम् । एवं कालपरिग्रहप्रायश्चित्तमत्रानुक्तमप्यनया गाथया ज्ञेयम्कालातीते काले कालविवच्चास कालउ अकाले । लहुओ लहुआ गुरुगा सुद्धपदे सेवए जं च।।