________________
जइ - जीयकप्पो व्याख्या-पुरुषस्य संयतस्य स्त्रीपर्शे निरन्तरे चतुर्लघुकम् । स्त्रियास्तु संयत्या निरन्तरे पुरुषस्पर्श चतुर्गुरुकं भवति । संयतस्य संयत्याश्च सान्तरे विपक्षस्पर्श लघुमासः । वस्त्राथलाभ्यामेव स्पर्शन परम्परामर्शन इत्यर्थः । तिर्यशीनां च स्पर्शन भिन्न भिन्नमासः प्रायश्चित्तं भवति । इत्यभिहितं चतुर्थमहाव्रतातीचारप्रायश्चित्तम् ।।९२।। अथ पञ्चममहाव्रतातिचारप्रायश्चित्तमाह
सुहुमो अ बायरो वा दुविहो लोउत्तरो समासेणं । कागाइसाणगोणे कपठगरक्षणममत्ते ।।९३।। सेहाई पडिकुटे सचित्तेणेसणाइ अचित्ते ।
ओरालिए हिरण्णे छक्काय परिग्गहे जं च ।।९४ ।। व्याख्या-परिग्रहो द्विविधो-लौकिको लोकोत्तरश्च । तत्र लौकिको द्रव्य-क्षेत्र-काल-भावभेदाच्चतुर्दा । लोकोत्तरः पुनः समासेन सङ्केपेण विधा सूक्ष्मो बादरश्च । तत्रेषन्ममत्वभावःसूक्ष्मः परिग्रहः । तीव्रो ममत्वभावो बादरः परिग्रहः । एष द्विविधोऽपि परिग्रहः पुनश्चतुर्द्धा-द्रव्ये क्षेत्रे काले भावे च । तत्र द्रव्ये काकादि पश्चार्द्धम् । आत्मनः पानकादि काकमपराध्यन्तं निवारयति । आदिग्रहणात् श्वानशृगालादिकम्, श्वानं वा दशन्तं गोणं वा बलीवदं वसत्यादिष्वपराध्यन्तं शय्यातरादीनां वा कल्पस्थकं बालकमन्यापदेशेन रक्षति । स्वजनादिषु वा ममत्वं करोति । शैक्षा वा प्रतिक्रुष्टाः प्रव्रज्याऽयोग्याः पूर्वमुपदर्शिता अष्टचत्वारिंशत् प्रव्राजयतः परिग्रहो भवति । अनाभाव्यं वा अप्रव्राजनीयं सचित्तं शिष्यादि वस्तु प्रव्राजयतः परिग्रहो भवति । आदिशब्दो भेदवाचकः। अनेषणीयं वा अचितभक्तादि गृह्णानस्य परिग्रहः स्यात् । आदिशब्दो भेदवाचकः आदिशब्दाद्वा वस्त्रपात्रशय्या गृह्यन्ते । अचित्तग्रहणाद्वाऽतिरिक्तोपधिग्रहणं करोति । स चानुपकारित्वात् परिग्रहो भवति । ओरालियं घटितरूपं द्रविणम्,अघटितरूपं हिरण्यं एतानि गृह्णतः परिग्रहो भवति । षट्कायान् जीवनिकायान् सचित्तपृथिवीकायादिकान् गृह्णानस्य परिग्रहो भवति ।।९३-९४ ।। जंच' त्ति । यच्च एतेषु काकादिषु प्रायश्चित्तं तच्च द्रष्टव्यम् । तदेव दर्शयति
पंचाई लहुगुरुगा एसणमाईसु जेसु ठाणेसु ।
गुरुगा हिरण्णमाई छक्कायविराहणे जं च ।।९५।। व्याख्या–पञ्चकादीनि प्रायश्चित्तानि लघूनि गुरूणि वा एषणादिषु येषु येषु स्थानेषु यानि सम्भवन्ति तानि दातव्यानि । अथवा पञ्चकमादौ कृत्वा चतुर्लघु चतुर्गुरु येषु स्थानेषु यत् प्रायश्चित्तं सम्भवति तद्दातव्यम् । आदिशब्दादुत्पादनोद्गमौ गृह्यते । हिरण्यं गृह्णानस्य चतुर्गुरुकाः । आदिशब्दादोरालिकेऽपि चतुर्गुरुकाः । षट्कायविराधने यत् प्रायश्चित्तं तत् षट्कायपरिग्रहे द्रष्टव्यम्, तच्च पुरापि प्रतिपादितम् ।।९५ ।। इममेवा) स्पष्टतरं व्याख्यानयति