________________
जइ - जीयकप्पो एवं निर्विकृत्यादिप्रकारेण यतमानस्य कस्यापि साधोर्मोहोपशमो भवेत् कस्यापि तु न भवेत् । यथा गिरिनद्यां पूर्णायां कृतप्रयत्नोऽपि कश्चित् पुरुषः तीक्ष्णेनोदकवेगेन ह्रियते । अथवा निम्नोन्नते तथाविधकदम वा कृतप्रयत्नोऽपि कश्चिद्यथा पतनं प्राप्नोति ।।८८।। एवं सर्वप्रयत्नेन यतमानस्याऽपि कस्यचित् साधोः कर्महतुका चारित्रविराधना भवेत्। एवं स उदीर्णमोहोऽदृढधृतिरसमर्थोऽधिसोढुं ततो हस्तकर्म करोतीति तद्विषयं प्रायश्चित्तमाह
पढमाइ पोरिसीए बिअ-तइअ-चउत्थिआइ करकम्मे । मूलं छेअं छम्मासमेव चत्तारि जा गुरुगा ।।८९।।
(नि०भा० ५७८, बृ०क० ४९३१) व्याख्या-रात्रौ प्रथमपौरुष्यां मोहोद्भवो जातः । तस्यामेवादृढधृतिर्यदि हस्तकर्म करोति तदा मूलम् । अथ प्रथमपौरुषीमधिसह्य द्वितीयायां पौरुष्यां करोति तदा छेदः । द्वे पौरुष्यावधिसह्य तृतीयायां करोति तदा षड्गुरुका मासाः । तिस्रः पौरुषीरधिसह्य चतुर्थ्यां कुर्वाणस्य चत्वारो गुरुकाः । एवं पौरुषी पौरुषीसहने एकैकं प्रायश्चित्तस्थानं इसति । उपलक्षणत्वादिदमप्यवगन्तव्यम् । रात्रौ चतुरो यामानधिसह्य द्वितीयदिवसे प्रथमपौरुष्यां करकर्म कुर्वाणस्य मासगुरुकम् । ततः परं सर्वत्रापि मासगुरुकमेव । लघूनि तु प्रायश्चित्तान्यत्र न भवन्ति । करकर्मसेवनस्यानुद्घातिमत्त्वात् ।।८९।। एतद्विषयमेव प्रायश्चित्तं पुनः प्रकारान्तरेणाह
सेवामि त्ति अ मिहुणं चउगुरुगं छग्गुरुअ करकम्मे। .
तमि वि बहुवारकए पच्छित्तं पंचकल्लाणं ।।९।। व्याख्या-मैथुनं सेवामि मैथुनसेवां करोमीति सङ्कल्पे चतुर्गुरुकं तेन सङ्कल्पेनोदीर्णकामो भवेत्ततोऽदृढधृतितयाऽधिसोढुमशक्तो यदि करकर्म करोति तदा षड्गुरुकम् । तस्मिन्नपि करकर्मणि बहुवारकृते असकृत् कृते प्रायश्चित्तं पञ्चकल्याणं पूर्वोक्तमेव तानि पञ्च भवन्ति ।।९०।। तथा
मूलं इत्थितिरिक्खिनपुंसनरआसपोससेवाए।
थीवयवफासि लहुगा अंचलतिरिफासणे पणगं ।।९१।। व्याख्या-स्त्री-तिर्यची-नपुंसकनराणां आसपोषसेवायाम् आस्यपोषाभ्यां या सेवाऽनाचाररूपा तस्यां विहितायां मूलं प्रायश्चित्तं भवति । स्त्रीणामवयवाः शरीरप्रदेशा हस्तादयः तेषां स्पर्शे निरन्तरे लघुकाश्चत्वारः । स्त्रीणामञ्चलेन परिधानादिवस्त्रप्रान्तेन स्पर्शने सान्तरे तिर्यक्स्त्रीणां गोमहिष्यादीनां स्पर्शन च पञ्चकं पञ्चकाऽऽख्यं प्रायश्चित्तं स्यात् ।।९१।। अथवा
पुरिसस्सित्थीफासे चउलहु इत्थीइ होइ चउगुरू(रु?)अं। लहुगं संतरफासे अंचलतिरिफासणे भिन्नं ।।१२।।