________________
जइ - जीयकप्पो व्याख्या-कुतूहले उत्पन्ने लघुमासः, अभिप्राये गुरुमासः, गमने चतुर्लघुकाः, शृङ्गारशब्दश्रवणे चतुर्गुरुकाः, कुड्यस्य छिद्रकरणे षड्लघुकाः, छिद्रेणानाचारविलोकने षड्गुरुकाः, करकर्मकरणपरिणामे छेदः, करकर्मकरणे च मूलम् । एवं भिक्षोः प्रायश्चित्तम् । उपाध्यायस्य मासगुरुकादारब्धमनवस्थाप्ये पर्यवस्यति । आचार्यस्य चतुर्लघुकादारब्धं पाराश्चिके तिष्ठति ।। ८७।। एवं सनिमित्तस्यानिमित्तस्य वा मोहोदयस्य ध्यानाऽध्ययनादिभिरधिसहनं कर्त्तव्यं तथाऽप्यनिवृत्तावेषा चिकित्सा कार्या
निविगइ निब्बलोमे तव उद्धट्ठाणमेव उन्भामे । वेआवच्ची हिंडण मंडलि कप्पट्ठिआहरणं ।।८८।।
(नि०भा० ५७४) व्याख्या-मोहोदये जाते सति तन्निवृत्त्यर्थं निर्विकृतिकमाहारमाहारयति, तथाप्यनुपशमे निर्बलानि वल्लचणकादीन्याहारयति । एवमप्यनिवृत्ताववमौदरिकां करोति । तथाप्यनुपरमे चतुर्थादि यावत् पाण्मासिकं तपः करोति । पारणके च निर्बलमाहारमाहारयति । यद्युपशाम्यति तदा सुन्दरम् । अथ नोपशाम्यति तदा ऊर्ध्वस्थानं महान्तं कायोत्सर्ग करोति । तथाऽप्यनुपशमे उद्घामे भिक्षाचर्यायां गच्छति । अथवा साधूनां विश्रामणादिवैयावृत्त्यं कार्यते । अथवा देशहिण्डकानां सहायो दीयते । एवमगीतार्थस्य यतना । गीतार्थः पुनः सूत्रार्थमण्डली दाप्यते । अथवा गीतार्थस्यापि निर्विकृतिकादिविधिर्द्रष्टव्यः । नोदकः प्राह-ननु यदि तावदगीतार्थस्य निर्विकृत्यादितपोविशेषादुपशमो न भवति, ततो गीतार्थस्य कथं शीतलछायादिस्थितस्योपशमो भविष्यति ? गुरुः प्रत्याहपेशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा निरन्तरं व्यापृतः कार्यः' ।।१।।
(नि०भा० ५७४ टीका) कल्पस्थिका बालिका तस्या आहरणं उदाहरणम् । तच्चेदम्-एगस्स कुटुंबिगस्स धूआ नियकम्मवावारा सुहासणत्था अच्छइ । तस्स अभंगुब्बट्टणण्हाणविलेवणादिपरायणाए मोहब्भवो अम्मधाति भणाति-आणेहि मे पुरिसं । तीए अम्मधातीए माउए से कहिअं । तीए वि पिउणो । पिउणा वाहरिया भणिआ पुत्तीए-एताओ दासीओ सबं धन्नादि अवहरंति, तुमं कोट्टायारं पडिअरसु, तहत्ति पडिवन्नं । सा जाव अन्नस्स भत्तयं देइ । अन्नस्स वित्तिं, अन्नस्स तंदुला, अन्नस्स आयं देक्खति अन्नस्स वयं । एवमादि किरिआसु वावडाए दिवसो गतो । सा अतीव खिन्ना रयणीए निविण्णा अम्मधातीए भणिता-आणेमि ते पुरिसं । सा भणति न मे पुरिसेण कज्जं निदं लहामि । एवं गीतार्थस्यापि सूत्रार्थपौरुषीं ददानस्यातीव सूत्रार्थेषु व्यापृतस्य कामसङ्कल्पो न जायते । भणितं चकाम ! जानामि ते मूलं सङ्कल्पात् किल जायसे । तमेव न करिष्यामि येन मे प्रभविष्यसि' ।।
(नि०भा० ५७४ तः ५७७, महाभारते)
A. अम्बधात्री = धावमाताने' इति भाषायाम्