SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ जइ - जीयकप्पो कालतोऽतीतं कालातीतम् ऋतुबद्धे मासातिरिक्तम्, वर्षासु चातिरिक्तम् एकत्र स्थाने वसतः काले कालपरिग्रहो भवति, नियतवासदोषाश्च भवन्ति । कालस्य विपर्यासो विपर्ययः तं करोति, कथम् ? कालतः काले ऋतुबद्धे न विहरति, अकाले वर्षाकाले विहरति । अथवा दिवा न विहरति, रात्रौ विहरति । अत्रेदं प्रायश्चित्तम्-ऋतुबद्धे मासातिरिक्ताऽवस्थाने मासो लघुकः । वर्षातिरिक्तावस्थाने चतुर्लघुकाः । कालविपर्यासे चतुर्गुरुकाः । एतानि प्रायश्चित्तानि शुद्धपदे भवन्ति । शुद्धपदं नाम यद्यप्यपराधं न प्राप्तस्तथापीत्यर्थः । यच्चात्म-संयमप्रवचनविराधनं सेवते तन्निष्पन्न प्रायश्चित्तं द्रष्टव्यम् ।।९८।। अथ भावपरिग्रहप्रायश्चित्तमाह उवहिममत्ते लहुगा तेणभया निक्खिवंति ते चेव । ओसन्नगिहिसु लहुगा सच्छंदित्थीसु चउगुरुगा ।।९९।। व्याख्या-भावपरिग्रहो रागेण द्वेषेण च भवति । तत्रोपधिरौधिक औपग्रहिकश्च । तस्मिन् द्विविधेऽप्युपधौ ममत्वं ममीकाररूपं तस्मिन् चतुर्लघुकाः प्रायश्चित्तम् । स्तेनभयात् चौरभयादुपधिं निक्षिपति गोपायति, विनाशभयाद्वा बद्धमेव स्थापयति ततः ते चेव त एव चतुर्लघुकाः । अवसन्नाः पार्श्वस्थादयो गृहिणो गृहस्थाः श्राद्धाः स्वजना वा तेषु विषये ममत्वे चतुर्लघुकाः । स्वच्छन्दा यथाछन्दाः तेषु स्त्रीषु च ममत्वे चतुर्गुरुकाः।।९९।। ननु अवसन्नादिषु ममत्वं किमर्थं करोति ? इत्याह परिवाराइनिमित्तं ममत्तपरिपालणाइ-वच्छल्ले । साहम्मिय त्ति संजमहेउं वा सबहिं सुद्धो ।।१००।। व्याख्या-परिवारः सहायरूपः, आदिशब्दादाहारोपधिशय्याः तेषां निमित्तम् । अयमाशयः-पार्श्वस्थाद्यानुकूल्येन सहायाऽऽहारोपधिशय्या लभ्यन्त इति कृत्वा पार्श्वस्थावसन्नकुशीलसंसक्तयथाछन्दादिषु श्रावकस्वजनादिषु च विषये ममत्वपरिपालनादिवात्सल्ये, ममत्वं प्रतिबन्धरूपं परिपालनमौषधाद्यैः आदिशब्दात् संभोगसंवाससूत्रार्थदानानि । इत्यादिके वात्सल्ये कृते सति पूर्वगाथोक्तं प्रायश्चित्तं भवति । यदि वा जीतोक्तं पुरुषविभागेन प्रायश्चित्तमत्रावगन्तव्यम् । यथा-भिक्षोभिन्नमासः । वृषभस्य लघुमासः । उपाध्यायस्य गुरुमासः । आचार्यस्य चतुर्लघु । अथ पुनः साधर्मिक इति समानधार्मिकोऽसाविति संयम वाऽसौ मत्संसर्गात् करिष्यतीति हेतोः । वाशब्दात् कुलगणसङ्घग्लानादिकार्येषु साहाय्यादिकं करिष्यतीत्यादिबुद्ध्या सर्वस्मिन् ममत्वादिके वात्सल्ये कृतेऽपि शुद्धः । इत्युक्तं पञ्चममहाव्रतातिचारप्रायश्चित्तम् ।।१००।।
SR No.032471
Book TitleJai Jiyaappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy