________________
जइ - जीयकप्पो कृत्वा बाहूच विक्षिपन् भाषते । अभीक्ष्णं च कटीहस्तकं ददाति । प्रावरणाभावे स्त्रीवद् बाहुभ्यां हृदयमाच्छादयति। भाषमाणश्च पुनः पुनः सविभ्रमं भूयुगमुत्क्षिपति । केशबन्धनप्रावरणादिकं च स्त्रीवत् करोति । योषिदाभरणादिपरिधानं बहु मन्यते । स्नानादिकं च प्रच्छन्नं समाचरति । पुरुषसमाजमध्ये च सभयं शङ्कितस्तिष्ठति । स्त्रीसमाजे तु निःशङ्कितः प्रमदोचितं च रन्धनखण्डनपोषणादिकं कर्म प्रविदधाति इत्यादि महिलास्वभावत्वं पण्डकलक्षणम्। अपरं च स्वरवर्णभेदः । उपलक्षणत्वाद् गन्धरसस्पर्शाश्च स्त्रीपुरुषापेक्षया विलक्षणास्तस्य भवन्तीत्यर्थः । में, पुरुषचिह्नं महद्भवति । मृद्वी च वाणी ललनाया इव सआयते । योषित इव सशब्दं मूत्रमभिजायते फेनरहितं च तद्भवति । एतानि षट् पण्डकलक्षणानि १ । वातिको नाम यस्य मोहकर्मोदयेन सागारिकं सविकारं जातं सत् स्वभावस्थं न स्याद् यावदनाचारं नाऽचरति २। क्लीबः क्लीब्यते इति क्लीबो गुणनिष्पन्ननामा, यस्य मैथुनाभिप्राये अङ्गादानं विकारं भजति बीजबिन्दुंच गलति । यदि निरुणद्धि तदा कालान्तरेण तृतीयः स्यात् ३ । यस्य तु वृषणौ श्वयतः शोफ भजतः स कुम्भी । स च द्विधा-वातदोषेण यस्य सागारिकं वृषणौ वा श्वयति स जातिकुम्भी-रोगीत्यर्थः । यस्य पुनर्मोहोत्कटतया सागारिकं वृषणौ वाऽसेवमानः श्वयति, स वेदकुम्भी ४ । यस्य प्रतिसेवमानं दृष्ट्वा ईर्ष्याऽभिलाष उत्पद्यते, स ईर्ष्यालुर्वेदोत्कटः स्त्रीमलभमानस्तृतीयः स्यात् ५ । वेदोत्कटतया अभीक्ष्णप्रतिसेवनासक्तो गृहचटक इव शकुनी भवति ६। यो मैथुनमासेवमानो बीजनिसर्गे जाते जिह्वया श्वान इव तदेव लेढि, स तत्कर्मसेवी सोऽप्यसेवकस्तृतीयः स्यात् ७। यस्य शुक्लपक्षे शुक्लपक्षे अतीव मोहोद्भवः स्यात् द्वितीयपक्षे त्वल्पः । अथवा शुक्लपक्षे कृष्णपक्षे वा पक्षं यावदतीवोदयः स्यात् तावन्मात्रमेव च कालमल्पोदयः स पक्षिकापक्षिकः ८। यः सागारिकं जिघ्रति तन्मलित्वा हस्तं जिघ्रति, तद्गन्धं च शुभं मन्यते, स सौगन्धिकः ९। यः सागारिक स्त्रीसागारिकेऽनुप्रवेश्य तिष्ठति, स आसिक्तः, सोऽपि मोहोत्कटतयातीव व्यसनी निरुद्धबस्तिः कालान्तरेण तृतीयः स्यात् १० । एते पण्डकादयो दश नपुंसका नगरमहादाहसमानकामाध्यवसायसम्पन्नत्वात् स्त्र्याद्यासेवामाश्रित्यातीवाशुभाध्यवसायवत्त्वाच्च दीक्षाऽनर्हाः। शेषाः पुनः षट् वर्द्धितादयो नपुंसका निशीथोक्तविशेषलक्षणसम्भवे प्रव्रज्यायोग्याः । तेषामिदं स्वरूपम्-आयत्यां राजान्तःपुरम॑हल्लकपदप्राप्त्यादिनिमित्तं यस्य बालत्वेऽपि छेदं दत्त्वा वृषणौ गालितौ भवतः, स वर्द्धितकः ११ । यस्य तु जातमात्रस्याङ्गुष्ठाङ्गुलिभिर्मर्पयित्वा वृषणौ द्राव्येते, स चिप्पितः १२ । एतयोश्चैवं कृते सति किल नपुंसकवेदोदयःसम्पद्यते । कस्यचित्तु मन्त्रसामर्थ्यादन्यस्य त्वौषधिसामर्थ्यात् पुरुषवेदे स्त्रीवेदे वा समुपहते सति नपुंसकवेदः समुदेति १३-१४ । अपरस्य तु मदीयतपःप्रभावान्नपुंसको भवत्विति ऋषिशापादन्यस्य तु देवशापात्तदुदयो जायते इति १५-१६। एतेषामष्टचत्वारिंशतः प्रव्रज्यानर्हाणामुत्सर्गापवादपदाभ्यां प्ररूपणा प्रकल्पे प्रदर्शिता विस्तरेण सा तत एवावसेया । एतेभ्योऽपरे सर्वेऽपि जातिकुलविनयादिगुणसम्पन्ना A. मेहनम् । B. वर्धते । C. कंचुकी' इति भाषायाम् । D. निशीथे ।