________________
जइ-जीयकप्पो बहुक्षीणप्रायकर्मांशाः प्रव्रज्याया योग्या मन्तव्याः । यश्च प्रव्रज्यार्थमुपस्थितो भवति, स एवं पृच्छ्यते-कोऽसि त्वं ? किं निमित्तं प्रव्रजसि ? किञ्च ते वैराग्यमिति पृष्टो यदि शुद्धोऽवगतः, ततस्तस्याग्रे साधुचर्या एषा कथ्यते-यावज्जीवं गोचरचर्यया भिक्षामटित्वाऽचित्तस्यैषणाविशुद्धस्याहारस्य भोजनं कर्तव्यम् । तदपि बालवृद्धशैक्षकादिसंविभागेन । नित्यं चतुष्कालं स्वाध्यायो विधातव्यः । यावज्जीवं देशतः सर्वतश्चाऽस्नानम्। ऋतुबद्धे काले भूमौ शय्या, वर्षारात्रे फलकादिशयनम् । दिवसे न स्वप्तव्यम् , रात्रौ तृतीये यामे निद्रामोक्षः। अष्टादश शीलाङ्गसहस्रा धरणीयाः । लोचादिकाः क्लेशा अनेके कार्याः । एवमुक्ते यदि स सर्वमभ्युपगच्छति, तदा तस्य सूत्रोक्तविधिना प्रव्रज्या प्रदेया । ततस्तस्य प्रासुक आहारो दीयते । स च भिक्षां न हिण्डाप्यते किन्त्वहिण्डमान एव ग्रहणशिक्षामासेवनशिक्षां च ग्राह्यते । ग्रहणशिक्षा नाम पाठः । आसेवनाशिक्षा सामाचारीशिक्षणम् । यदा च द्विविधामपि शिक्षा ग्राहितोऽधीतषड्जीवनिकायाध्ययनश्च स स्यात् तदा तस्याग्रे तदर्थः कथ्यते । ततोऽधिगतोऽर्थोऽनेन सम्यक् श्रद्धानविषयीकृतश्च यदि तदानीं तस्येत्थं परीक्षा क्रियते, यथा-उच्चारप्रश्रवणादिपरिष्ठापनार्थमस्थण्डिलं सचित्तपथिवीकायात्मकं दयते । यदि तत्र न परिष्ठापयति स्थाननिषदनादि च न करोति, तदा ज्ञायते सम्यक् परिणतोऽस्य धर्म इति । एवमप्कायविषये नदीतटाकायुदकसमीपे परीक्षा । तेजःकाये साऽग्निवसतौ प्रदीपमवष्वष्कय उत्ष्वष्कय वा । तथा वातविषये धर्मात्तॊ भण्यते-तालवृन्तादिना वातोदीरणां कुरु, अभिधारणं वा कुरु, यदि न करोति तदा परिणतः । हरितकाये त्रसेषु च पृथिव्यामिव परीक्षा कार्या । एवं गोचरगतोऽपि पृथिव्यादिभिः कायैः परीक्ष्यते, तद्यथा-सरजस्केनोदकार्टेण वा हस्तेन मात्रकेण वा भिक्षा ग्राह्यते, इत्यादि परीक्षया त्रिविधत्रिविधेन षड्जीवनिकायपरिहारी स यद्यवगम्यते तदा व्रतारोपणयोग्यः । ततो द्रव्यादौ प्रशस्ते तस्य आचार्येणात्मनो वामपावें स्थापितस्य व्रतारोपणरूपोपस्थापना यथाविधि विधेया । ततो दिग निबध्यते द्विविधा त्रिविधा वा । तत्र साधोर्द्विविधा । तद्यथा-आचार्यस्योपाध्यायस्य च । वृतिन्यास्त्रिविधा । तद्यथा-आचार्यस्योपाध्यायस्य प्रवर्त्तिन्याश्च । तथा-उपस्थापनानन्तरं तपः कार्यते । तच्चाऽभक्तार्थमाचाम्लं निर्विकृतिकं वा। तथा द्वौ पितापुत्रौ प्रव्रजितौ यदि द्वावपि युगपत् प्राप्तौ, तर्हि युगपदुपस्थाप्यते । अथ पुत्रः सूत्रादिभिरप्राप्तः स्थविरस्तु प्राप्तस्तर्हि तस्योपस्थापना विधेया । यदि पुनः पुत्रः प्राप्तः, स्थविरस्त्वप्राप्तः तर्हि यावदुपस्थापनादिवसः शुद्धः समेति तावत् स्थविरः प्रयत्नेन शिक्ष्यते, यदि तावता प्राप्तो भवति, ततो द्वावपि युगपदुपस्थाप्यते। अथाऽऽदरेण शिक्ष्यमाणोऽपि न प्राप्तस्तदा स्थविरेणानुज्ञाते सति क्षुल्लक उपस्थाप्यते । अथ स्थविरो न मन्यते, तदा प्रज्ञापना कर्त्तव्या राजादिदृष्टान्तेन । स चैवम्- एगो राया रज्जपरिभट्ठो सपुत्तो अन्नरायाणमोलग्गिउँमाढत्तो । सो राया पुत्तस्स तुट्ठो । तं से पुत्तं रज्जि ठाविउमिच्छइ। किं सो पिआ नाणुजाणइ ? एवं तव जइ पुत्तो महब्वयरज्जं पावइ ता किं न मन्नसि ? ' एवं प्रज्ञापितेन स्थविरेणानुज्ञाते
A. सेवितुमारब्धः ।