________________
जइ-जीयकप्पो
विषयदुष्टः । स्नेहाऽज्ञानादिपरतन्त्रतया यथास्थितवस्त्ववगमशून्यमानसो मूढः । यो राजादीनां हिरण्यादिकं धारयति स ऋणार्त्तः । जातिकर्मशरीरादिभिर्दूषितो जुङ्गितः । तत्र मातङ्गकौलिकवरुडसूचिकछिम्पका– दयोsस्पृश्या जात्या जुङ्गिताः । स्पृश्या अपि स्त्रीमयूरकुक्कुटादिपोषकाः । वंशवरत्राऽऽरोहणनखप्रक्षालनसौकरिकत्ववागुरिकत्वादिनिन्दितकर्मकारिणः कर्मजुङ्गिताः । करचरणकर्णादिवर्जिताः पङ्गुकुब्जवामनककाणप्रभृतयः शरीरजुङ्गिताः । अर्थग्रहणपूर्वकं विद्यादिग्रहणनिमित्तं वा एतावन्ति दिनानि त्वदीयोऽहमित्येवं येनाऽऽत्मनः परायत्तता कृता भवति, सोऽवबद्धः । रूपकादिमात्रया भृत्या धनिनां गृहे दिनपाटिकादिमात्रेण तदादेशकरणे प्रवृत्तो भृतकः । शिक्षकस्य दीक्षितुमिष्टस्य निःस्फेटिका अपहरणं शिक्षकनिः स्फेटिका । तद्योगाद्यो मातापित्रादिभिरननुज्ञातोऽपहृत्य दीक्षितुमिष्यते, सोऽपि शिक्षकनिः स्फेटिका । इत्येते ऽष्टादश पुरुषेषु दीक्षाऽनर्हाः भेदाः । एतेषां बालादीनां दीक्षाप्रदाने प्रवचनमालिन्य - संयमात्मविराधनादयो दोषाः सुखावसेया एवेति न दर्शिताः । वैरस्वाम्यादीनां च प्रव्राजनेऽपवादपदं निशीथादवसेयम् । एते एव चाष्टादशभेदाः स्त्रीष्वपि परं नपुंसकद्वारेऽयं विशेषः - यः पुरुषनपुंसकः स प्रतिसेवते प्रतिसेवापयति च । स्त्रीनपुंसिका पुनः स्त्रीवेदं नपुंसकवेदमपि वेदयति । अन्यावपि द्वाविमौ भेदौ भवतः, तद्यथा - गुर्विणी सगर्भा, सबालवत्सा सह बालेन स्तनपायिना वत्सेन वर्त्तत इति सबालवत्सा । एते सर्वेऽपि विंशतिः स्त्रीभेदा दीक्षाऽनर्हाः । नपुंसकाः पुनः षोडशभेदा भवन्ति, तद्यथापंडए वाइए कीवे कुंभी इस्सालुए
>
इअ । सउणी तक्कमसेवी अ पक्खिआपक्खिए इअ ।। (बृ०क० ५१६६, नि०भा० ३५६१, प्र०सा० ७९३) सोगंधिए आसित्ते वद्धिए चिप्पिए इअ । मंतो- सहीउवहए इसिसत्ते देवसत्ते अ ।। (बृ०क० ५१६७, नि०भा० ३५६२, प्र०सा० ७९४ ) पण्डकः, वातिकः, क्लीबः, कुम्भी, ईर्ष्यालुः, शकुनी, तत्कर्मसेवी, पक्षिकाऽपक्षिकः, सौगन्धिकः, आसिक्तः, वर्द्धितः, चिप्णितः, मन्त्रोपहत, औषध्युपहतः, ऋषिशप्तः, देवशप्तः । तत्र पण्डकस्येमानि षड् लक्षणानि—
महिलासहावो सरखन्नभेओ मेंढं महंतं मउआ अ वाणी । ससद्दयं मुत्तमफेणगं च एआणि छप्पंडगलक्खणाणि ' ।। (बृ०क० ५१४४, नि०भा० ३५६७) पुरुषाकारधारिणोऽपि महिलास्वभावत्वं पण्डकस्यैकं लक्षणं, तथाहि - गतिस्तस्य पदाकुला मन्दा भवति, सशङ्कं पृष्ठतोऽवलोकमानो गच्छति । शरीरं च शीतलं मृदु च भवति । योषिदिवाऽनवरतं हस्तोभकान् प्रयच्छन् उदरोपरि तिर्यग् व्यवस्थापितवामकरतलस्य उपरिष्टाद्दक्षिणकरकूर्पूरं विन्यस्य दक्षिणकरतले च मुखं A. भृतिः = भाटिः ( मजुरी, भाडुं' इति भाषायाम् ) । B. कर्मकरः ।