________________
जइ - जीयकप्पो एतेषां लेशतोऽयमर्थः-पुरुषेषु मध्येऽष्टादश, स्त्रीषु विंशतिः, नपुंसकेषु दश, एतेऽष्टचत्वारिंशत् प्रव्राजनाया अनर्हाः । अनला अयोग्या एतावन्तो भणिताः, तद्यथा बालः सप्ताष्टौ वर्षाणि यावदत्राभिधीयते। सप्ततिवर्षेभ्य उपरि वृद्धः । अन्ये त्वाहुः-अर्वागपीन्द्रियादिहानिदर्शनात् षष्टिवर्षेभ्योऽप्युपरि वृद्धोऽभिधीयते । न स्री, न पुमान् नपुंसकम् । जड्डस्तु त्रिधा भाषया शरीरेण करणेन च । भाषाजडुः पुनरपि त्रिधा-जलमूको, मन्मनमूक, एलकमूकः । तत्र जलनिमग्न इव बुडबुडायमानो यो वक्ति स जलमूकः । यस्य वदतः खल्यमानमिव वचनं स्खलति, स मन्मनमूकः । यस्त्वेलक इवाव्यक्तं मूकतया शब्दमात्रमेव करोति, स एलकमूकः । यः पथि भिक्षाटने वन्दनादिषु वाऽतीव स्थूलतयाऽशक्तो भवति, स शरीरजड्डः । करणं-क्रिया तस्यां जड्डः करणजड्डः समितिगुप्तिप्रतिक्रमणप्रत्युपेक्षणासंयमपालनादिक्रियां पुनः पुनरुपदिश्यमानामप्यतीव जड्डतया यो ग्रहीतुं न शक्नोति, स करणजड्ड इत्यर्थः । यः स्त्रिभिर्भोगैर्निमन्त्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा, शब्दं च मन्मनालापादिकं तासां श्रुत्वा समुद्भूतकामाभिलाषोऽधिसोढुं न शक्नोति स क्लीबः । भगन्दरातीसारकुष्ठप्लीहशूलार्शःप्रभृतिरोगैस्तो व्याधितः । क्षत्रखननमार्गपातनादिचौर्यनिरतः स्तेनः । श्रीगृहान्तःपुरनृपतिशरीरतत्पुत्रादिद्रोहविधायको राजापकारी । यक्षादिना प्रबलमोहोदयेन वा परवशतां नीत उन्मत्तः । न विद्यते दर्शनं दृग् यस्येत्यदर्शनोऽन्धः स्त्यानर्द्धिनिद्रोदयवानप्यत्र द्रष्टव्यः । गृहदास्याः सातो, दुर्भिक्षादिष्वर्थादिना वा क्रीतः, ऋणादिव्यतिकरे वाऽवरुद्धो दास उच्यते । दुष्टो द्विधा-कषायदुष्टो विषयदुष्टश्च । तत्र सर्षपभर्जिकाभिनिविष्टसाध्वादिवद् उत्कटकषायः कषायदुष्टः । अतीव परयोषिदादिषु गृद्धो
A. उदररोगविशेषः। B. भाण्डार । C. एगेण साहुणा सासवभज्जिया (='सरसवनी भाजी' इति भाषायाम्) सुसंभिया लद्धा, तत्थ से अतीव गेही। आयरियस्स य आलोइयं । पडिदंसिए निमंतिए य आयरिएणं सव्वा वि समुद्दिट्ठा । इतरो पदोसमावण्णो । आयरिएणं लक्खियं, मिच्छामि दुक्कडं' कयं तहावि न उवसमइ, भणइ य-तुज्झ दंते भंजामि । गुरुणा चिंतियं- मा असमाहिमरणेण मारिस्सइ'त्ति गणे अन्नं गणहरंठवेत्ता अन्नं गणंगंतूण भत्तपच्चक्खाणं कयं । समाहीए कालगया । इयरो गवेसमाणो सज्झंतिए पुच्छइ-कत्थ आयरिया ? तेहिं न अक्खायं । सो अन्नतो सोच्चा तत्थ गंतुं पुच्छइ-कहिं आयरिया ? ते भणंति-समाहीए कालगया । पुणो पुच्छइ-कहिं सरीरगं परिट्ठवियं ? आयरिएहि य पुव्वं भणियं-मा तस्स पावस्स मम सरीरपरिट्ठावणियाभूमि कहेज्जाह, मा आगट्ठि-विगढेि करेमाणो उड्डाहं काहिइ । तेहिं अकहिए अन्नतो सोउं तत्थ गंतुं उवट्ठियाओ गोलोवलं कड्डिऊण दंते भंजंतो भणइ-एतेहिं तुमे सासवनालं खइयं । तं साहूहिं पडियरतेहिं दिटुं ।। अथाक्षरगमनिका-सर्षपनालविषयं छन्दनं निमन्त्रणं गुरोः कृतम् । गुरुणा च सर्वं भुक्तम् । इतरस्य कोपः। गुरुणा क्षामणे कृतेऽपि स नोपशान्तः । ततोऽनुपशान्ते तस्मिन् गणिनम्' आचार्य स्थापयित्वा अन्यस्मिन् गच्छे परिज्ञा भक्तप्रत्याख्यानमङ्गीकृतम् । तस्य च शिष्याधमस्य गुरवः कुत्र गताः' ? इति पृच्छतोऽपि सञ्झिलकसाधुभिर्नाख्यातम् । ततोऽन्यतः श्रुत्वा तत्र गत्वा कुत्र तेषां शरीरम्'? पृच्छा कृता । गुरुभिश्च पूर्वमेव तदीयो वृतान्त: कथित आसीत् । दायण'त्ति अकारप्रश्लेषात् ततस्तैराचार्यशरीरपरिष्ठापनाभूमिर्न दर्शिता। स चान्यतः श्रुत्वा गतो दन्तभञ्जनं कृतवान् । साधुभिश्च गुपिलस्थाने स्थितैः प्रतिचरणं कृतमिति ।।
(बृ०क० ४९८८, ४९८९ - टीका, नि०भा० ३६८३,३६८४)