________________
जइ - जीयकप्पो इति । ततस्तस्यैवमप्रच्छने प्रथमदिवसे मासलघु । द्वितीयदिवसेऽपि यदि न पृच्छति तदा मासगुरु । तृतीयदिवसेऽप्यप्रच्छने च चत्वारो लघुमासाः । चतुर्थेऽपि दिवसे यदि न पृच्छति तदा चतुर्गुरु । पञ्चमादिष्वपि दिवसेष्वप्रच्छने तदेव चतुर्गुरु । सोऽपि पृष्टः सन् यदि ब्रूते-कथयिष्यामि तदा तस्यापि प्रथमदिवसे मासलघु, द्वितीयदिवसे मासगुरु, तृतीयदिवसे चतुर्लघु, चतुर्थदिवसेऽप्यकथने चतुर्गुरु, पञ्चमादिष्वपि तदेव चतुर्गुरु । अथवा प्रथमदिवसे श्रान्त इति कृत्वा न पृष्टस्तत आचार्यः शुद्धः, कारणवशेनाऽप्रच्छनात् । द्वितीयदिवसे न पृच्छति मासगुरु, तृतीये न पृच्छति चतुर्लघु, चतुर्थे दिवसे चतुर्गुरु । एवं तेनोपसम्पद्यमानेन पृष्टेनाऽपृष्टेन वा आख्यातं यदहममुकेन कारणेन समागत इति । तत आगतश्चिन्तनीयः शुद्धोऽशुद्धो वा । अत्र चत्वारो भङ्गाः । तद्यथा-निर्गमनमप्यशुद्धमागमनमप्यशुद्धम् १, निर्गमनमशुद्धमागमनं शुद्धम् २, निर्गमनं शुद्धमागमनमशुद्धम् ३, निर्गमनमपि शुद्धमागमनमपि शुद्धम् ४ । तत्र निर्गमनं पूर्वोक्तैरेकाकिगुरुत्यागादिभिर्वक्ष्यमाणैश्चाधिकरणादिभिर्दोषैरशुद्धम् । आगमनं तु वजिकादिषु प्रतिबन्धेनाशुद्धम् । तत्रापि प्रतिबन्धनिमित्तं प्रायश्चित्तं सूत्रानुसारतो वक्तव्यम् । चतुर्थभङ्गस्तु निर्दोष इत्यादि । एतद्वक्तव्यता विस्तरतो निशीथादिमहाग्रन्थेभ्योऽवसेया ।।३१।। एवं ज्ञानाद्युपसम्पन्निमित्तागतशिष्यदोषविषयं प्रायश्चित्तमुक्तम् । अथ नवप्रव्रजितशिष्याऽविध्युपस्थापनाविषयमाह
अप्पत्ते अकहित्ता जीवाजीवे अ बंधमुक्खं च । उवठावणि चउगुरुगा विराहणा जा भणिअपुत्विं ।।३२ ।।
(नि०भा० ३७५२) व्याख्या-उपस्थापना तावत् प्रव्रजितस्य स्यात् । प्रव्रज्या च योग्यानामेव देया, न त्वयोग्यानाम् । यत उक्तंपव्वावणारिहा खलु जाईकुलरूवविणयसंपन्ना । तविवरीअगुणा खलु हुंति अपव्वावणाजुग्गा' ।। अथ चैतेऽष्टचत्वारिंशदयोग्याः प्रव्रज्यायाः । अट्ठारस पुरिसेसुं वीसं इत्थीसु दस नपुंसेसु । पवावणा अणरिहा अनला अह इत्तिआ भणिआ ।।
(नि०भा० ३५०५, बृ०क० ४३६५) बाले वुड्ढे नपुंसे अ जड्डे कीवे अ वाहिए । तेणे रायावगारी अ उम्मत्ते अ अदंसणे ।।
(नि०भा० ३५०६, प्र०सा० ७९०) दासे दुढे अ मूढे अ अणत्ते जुंगिए इअ । उबद्धये अ भयए सेहनिफेडिआइआ ।।
(नि०भा० ३५०७, प्र०सा० ७९१) गुबिणी बालवच्छा अ पवावेउं न कप्पइ । एएसिं तु परूवणा कायव्वा दुपयसंजुत्ता' ।।
(नि०भा० ३५०८, पंचकल्पभाष्य - २००, २०१, २०२)