________________
जइ - जीयकप्पो एआरिसं विउसज्ज विपवासो न कपई । सीसपडिच्छायरिए पायच्छित्तं विहिज्जई ।।२९।।
(बृ०क० ५४००, नि०भा० ५४९५) व्याख्या-एतादृशमेकाक्यादि स्वरूपं गुरुमन्यं वा ग्लानादिकं व्युत्सृज्य परित्यज्य विशेषेण प्रवासोऽन्यत्र गमनं विप्रवासो भद्र ! तव न कल्पते । बहुगुणाधारो भवान् कथमीदृशं कृतवान् ? तस्मादद्यापि प्रायश्चित्तं प्रतिपद्य पश्चाद्गच्छ । स च समागतस्तस्य प्राक्तनाचार्यस्य शिष्यो वा स्यात् प्रतीच्छको वा । एवमागतमुपसम्पद्यमानं योऽप्याचार्यः प्रतीच्छति सोऽपि प्रायश्चित्तभाक् । ततः शिष्यप्रतीच्छकाचार्याणां प्रायश्चित्तं विवक्षुरिदमाहसीसपडिच्छायरिए' इत्यादि । शिष्ये प्रतीच्छके आचार्ये च प्रायश्चित्तं विधीयते । प्रायश्चित्तदानविधिरुच्यत इति भावः ।।२९।। प्रतिज्ञामेव निर्वाहयति
एगे गिलाणि पाहुडि तिण्ह वि गुरुगाओ सीसमाईणं । सेसे सीसे गुरुगा लहुग पडिच्छे गुरुसरिसं ।।३०।।
(नि०भा० ५४९६) व्याख्या-एकस्मिन् एकाकिनि गुरौ, ग्लाने वा तत्र गच्छे तिष्ठति, प्राभृते वा केनापि सहाऽधिकरणे सति यदि समागतः शिष्यः, प्रतीच्छको वा आचार्येण वा तथा समागतः सन् यदि प्रतीच्छितः तदा शिष्यादीनां शिष्यप्रतीच्छका-ऽऽचार्याणां त्रयाणामपि गुरुकाश्चत्वारो गुरुमासाः । यः पुनरन्यः शेषोऽपरिणता-ऽल्पाधारस्थविर-बहुरोग-मन्दधर्म-परिवारलक्षणस्तस्मिन् शेषे यदि समागतः शिष्यस्तस्य प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः । अथ प्रतीच्छकः समागतः तर्हि तस्य लघुकाश्चत्वारो लघुमासाः । गुरु सरिस' मिति गुरोरपि सदृशं प्रायश्चित्तम् , किमुक्तं भवति-यदि शिष्यं प्रतीच्छति ततः प्रायश्चित्तं चत्वारो गुरुमासाः । अथ प्रतीच्छकं तर्हि चत्वारो लघुका इति ।।३०।। अथवा प्राभृते इदं प्रायश्चित्तम्
सीसपडिच्छे पाहुडि छेओ राइंदिआणि पंचेव । आयरिअस्स उगुरुगा दोवेए पडिच्छमाणस्स ।।३१।।
(नि०भा० ६३४०) व्याख्या- यदि प्राभृते गुरोः शिष्यस्य वा केनापि सहाधिकरणे वर्त्तमाने शिष्यः प्रतीच्छको वा समागतस्तदा तस्य शिष्यस्य प्रतीच्छकस्य वा प्रायश्चित्तं पञ्च रात्रिंदिवानि पर्यायस्य छेदः । आचार्यस्य पुनविप्येतौ प्रतीच्छतः प्रतिगृह्णतः प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः । तथा यः समनोज्ञ उपसम्पदनार्थमागतस्तं यद्याचार्यः प्रथमदिवसे न पृच्छति, यथा-कुतः आगतः ?, कुत्र वा गमिष्यसि ?, किं निमित्तं वा समागतः ?