________________
इ-जीयकप्पो
व्याख्या - पीईसुन्नणि' त्ति । अलीकानि इतराणि वा परदूषणानि भाषमाणः प्रीतिं शून्यां करोतीति पिशुनो, नैरुक्ती शब्दनिष्पत्तिः । स च यद्याचार्यस्य पैशुन्यं करोति तदा चतुर्गुरु, उपाध्यायस्य करोति चतुर्लघु, भिक्षोः करोति मासगुरु, क्षुल्लकस्य करोति मासलघु इति कल्पचूर्ण्यभिप्रायः । निशीथचूर्ण्यभिप्रायेण तु यद्याचार्यः पैशुन्यं करोति तदा चत्वारो गुरवः, उपाध्यायः करोति चत्वारो लघवः, भिक्षुः करोति मासगुरु, क्षुल्लः करोति मासलघु । अमुमेवार्थं सञ्जिघृक्षुराह - गुरुगा' इत्यादि । चतुर्णामाचार्योपाध्यायभिक्षुक्षुल्लकरूपाणां पैशुन्यकरणं विषयभूतानां कर्तृभूतानां वा यथाक्रमं गुरुकादयो यावल्लघुको मासः प्रायश्चित्तम् । अथवे प्रकारान्तरोपन्यासे । सामान्यतः संयतः संयतेषु पैशुन्यं करोति । तत्रासदूषणविषये पैशुन्ये चत्वारो लघवः। सदूषणविषये लघुको मासः । एते एव प्रायश्चित्ते गृहिषु गुरुके अवसातव्ये, तद्यथा - गृहस्थेषु असद्भिर्दोषैः पैशुन्यं करोति चत्वारो गुरवः । सद्भिः करोति गुरुमासः । एवं प्रासङ्गिकं प्रतिपादितम् ।। २७।। सम्प्रति ज्ञानाद्युपसम्पन्निमित्तमागतः शिष्यो यैर्दोषैः प्रतीच्छनीयो न स्यादिति तानाह— एगे अपरिणए वा अप्पाहारे अ थेरए ।
गिलाणे बहुरोगी अ मंदधम्मे अ पाहुडे ।। २८ ।। ( बृ०क० ५३९९, नि०भा० ५४९४) व्याख्या–यदि एक एकाकी पश्चादाचार्य: । यदि वा अपरिणतः कथमपि गृहीतैरकल्पिकैर्वस्त्रादिभिः सहितः। अथवा तस्याचार्यस्य पार्श्वे ये तिष्ठन्ति, ते अपरिणता आहारवस्त्रपात्रशय्यास्थण्डिलानामकल्पिकास्तैः सहितः, स च कल्पिकवस्त्राद्युत्पादने लब्धिमान् । अथवा स आचार्योऽल्पाधारः अल्पस्य सूत्रस्यार्थस्य आधारः सूत्रार्थ नैपुण (ण्य ? ) विकलः शङ्कितसूत्रार्थो वा, सूत्रार्थकथननिपुणं तमेव शिष्यं पृष्ट्वा शेषसाधुभ्यो वाचनां ददाति । यदि वा आचार्यः परिवारो वा स्थविरो जरसा वृद्धशरीरोऽजङ्गमः, स च तेषां प्रतिजागरकः । अथवा पश्चात्तत्र गच्छे एको ग्लानोऽधुनोत्पन्नरोगः, स च तस्य चिन्ताकारी । यदि वा एको बहुरोगी, बहुरोगी नाम चिरकालं बहुभिर्वा साधारणै रोगैर्जा (या) प्यशरीरः, स च तस्य वर्त्तापकः । यदि वा पश्चात्तनाचार्यपरिवारः सर्वोऽपि मन्दधर्मा निर्धर्मा न गुर्वाज्ञां करोति, केवलं तद्भयात् किमपि करोति । तथा गुरुणा समं प्राभृतं कलहं कृत्वा समागतः । अथवा प्राभृतकारिणस्तस्य शिष्याः तस्यैव गुणेन प्राभृतं न कुर्वन्ति । तस्यैव वा संयतैर्गृहिभिर्वा सह प्राभृतमस्ति । यदि वा पश्चात्तत्र गुरोः केनापि सह प्राभृतमस्ति । स च क्रमेणापनयनतो गुरोः साहाय्यकारी । एवं प्राग् वर्त्तमाने यदि समागतः स्यात् । इदमुक्तं भवति - पश्चादेकाकिनम्, अपरिणतम्, अल्पाधारम्, स्थविरम्, गुरुं परिवारं वा ग्लानम्, बहुरोगिणम्, निर्द्धर्मपरिवारं वा आचार्यं विमुच्य प्राभृतं वा कृत्वा यदि समागतो भवेत्तर्हि स न प्रतिग्राह्यः ।। २८ । । केवलमयमुपदेशस्तस्मै प्रदातव्यस्तमेवाह—
A. याप्यः चिकित्साकरणयोग्यः ।