________________
जइ - जीयकप्पो शिष्याः । आदिमादृष्टभावोऽप्राप्तः, तरुणधर्मा पुनरव्यक्तः । अनयोः स्वरुपं प्राक् प्रतिपादितम् । तत्रेदं तात्पर्यम्-अव्यक्तो द्विधा-पर्यायण श्रुतेन च । तत्र पर्यायो द्विधा-जन्मतः प्रव्रज्यातश्च । तत्र जन्मतो यावत् षोडशवर्षाणि तावदव्यक्तः, प्रव्रज्यातस्तु यावत् त्रीणि वर्षाणि तावदव्यक्तः । प्रकल्पाध्ययनस्य यो वा यस्य श्रुतस्य कालः प्रोक्तस्तमप्राप्तोऽव्यक्तस्तस्य श्रुतस्य । श्रुतेन पुनरावश्यकेऽनधीते दशवैकालिकस्याव्यक्तः। दशवैकालिकेऽनधीते उत्तराध्ययनानामव्यक्तः । एवं सर्वत्र । अत्र पर्यायश्रुताभ्यां चतुर्भङ्गी कार्या । तद्यथा-पयिण श्रुतेन च व्यक्तः प्रथमः, पर्यायेण व्यक्तः श्रुतेन त्वव्यक्तो द्वितीयः, पर्यायणाव्यक्तः श्रुतेन तु व्यक्तस्तृतीयः, द्वाभ्यामप्यव्यक्तश्चतुर्थः । प्रथमभङ्गे व्यक्तः शेषेषु त्रिष्वपि भङ्गेष्वव्यक्तः । स एव च यथायोगमादिमादृष्टभावतरुणधर्मतयाऽवगन्तव्यः ।।२५।। अथैषां सूत्रार्थप्रदाने प्रायश्चित्तमाह
अबत्ते अप्पत्ते लहुगा लहुगा य हुंति अप्पत्ते । लहुगा य हुंति तितिणि रसतितिणि हुंतऽणुग्घाया ।।२६।।
___ (नि०भा० ६२२९, बृ०क० ७८८) व्याख्या-अव्यक्तः तरुणधर्मा तस्य, तथा अप्पत्ते' त्ति । अपात्राणामेकादशसङ्ख्याकानां सूत्रार्थों यदि ददाति तदा चत्वारो लघुकाः । लहुगा य हुँति अप्पत्ते' त्ति । अप्राप्त आद्यदृष्टभावस्तस्य ददाति चत्वारो लघुकाः । अत्रैव विशेषमाह- लहुगा य हुँति तितिणि' इत्यादि । तिन्तिणिकस्य शिक्षातिन्तिणिकस्य उपधितिन्तिणिकस्य शय्यातिन्तिणिकस्य ददाति चत्वारो लघवः । आहारतिन्तिणिकस्य पुनर्विशेषमाह- रसतितिणि हुंतऽणुग्घाया' इति । रसतिन्तिणिकस्य 'व्याख्यातो विशेषप्रतिपत्ते' राहारतिन्तिणिकस्य ददाति चत्वारोऽनुदाता गुरव इत्यर्थः। अयमुत्सर्गनिश्चयःभरिज सह विज्जाए कालेणं आगए विदू । अप्पत्तं च न वाइज्जा पत्तं च न विमाणए' ।।
(नि०भा० ६२३०) कारणैः पुनरपवादपदेनैतानपि वाचयन्न प्रायश्चित्तभाग् भवति । तच्चापवादपदं निशीथादिमहाग्रन्थेषु विस्तरेणाभिहितं तत एवावसेयम् । इह तु ग्रन्थगौरवभयान्नोच्यते । एवं पूर्वमुद्दिष्टानामव्यक्ताऽपात्राऽप्राप्तानां विभागेन प्रायश्चित्तं प्रतिपादितम् ।।२६।। अथ पूर्वोक्तपिशुनविषयं प्रसङ्गागतं विशेषमाह
पीईसुन्नणि पिसुणे गुरुगाइ चउण्ह जाव लहुगो उ । अहवा संतासते लहुओ लहुगा गिहेसु गुरुगा ।।२७।।
__ (नि०भा० ६२ १२, बृ०क० ७७५)