________________
जइ-जीयकप्पो अथ पिशुनः- अलीकानीतराणि वा परदूषणानि भाषमाणः प्रीतिं शून्यां करोतीति वक्ष्यमाणलक्षणः । उपलक्षणत्वादपरेऽप्यपात्रभूताः शिष्या ज्ञेया यथा आद्यदृष्टभावः १ । अकृतसामाचारीकः २, तरुणधर्मा ३, गर्वितः ४, प्रकीर्णप्रज्ञविद्यः ५, गुरुनिह्नवी ६ । तत्राऽऽवश्यकादि-सूत्रकृताङ्गपर्यन्तेषु ग्रन्थेषु ये भावाः पदार्था अभिधेयास्ते आदिमा भावा येनाऽवगता न सन्ति, स आद्यदृष्टभावः । १। ज्ञानोपसम्पदि सूत्रार्थमण्डलीविषयां सामाचारी शास्त्रान्तरविस्तरोक्तां यो न करोति स्म, सोऽकृतसामाचारीकः ।२। यस्य श्रुतस्य यो यावान् कालः- तिरिसपरिआयस्स उ' इत्यादिगाथाकदम्बकप्रतिपादितस्तस्य तावन्तकालमसमापयन् तरुणधर्मा भवति ।३। गर्वितो यः श्रुतमधीयानः तदवलेपादेव दुर्विनीतो भवन्नुपलभ्यते, तादृशे पुरुषे आचारादि श्रुतजातं स्तोकमात्रमपि नाचक्षीत । यतः-परिकर्त्तितकर्णहस्तस्य पुरुषस्य कुण्डलकङ्कणाद्याभरणं दीयमानं न शोभेत । विशेषेणाऽयमयोग्यः । यदुक्तम्मद्दवकरणं नाणं तेणेव उ जे मयं समुवयंति । ऊणगभायणसरिसा अगदो वि विसायए तेसिं' ।।
(नि०भा० ६२२२, बृ०क० ७८३) योऽर्थमण्डल्या राहसिकग्रन्थार्थं श्रुत्वा उत्थितः सन् अपरिणतानां लेशोद्देशतः कथयति । यथा अमुकं प्रलम्बग्रहणादिकमत्र सूत्रेण कल्पनीयतया कथ्यते स प्रकीर्णप्रज्ञः । प्रज्ञाशब्देनेह प्रकर्षेण ज्ञायते उत्सर्गापवादतत्त्वमनयेति व्युत्पत्त्या छेदश्रुतान्तर्गता रहस्यवचनपद्धतिरुच्यते, सा प्रकीर्णा विक्षिप्ता येन स प्रकीर्णप्रज्ञः। तथा प्रकीर्णविद्यः यः सर्वमप्यादेरारभ्य पर्यन्तं यावत् छेदश्रुतमुत्सर्गापवादसहितमपरिणतानां कथयति स प्रकीर्णविद्यः, विद्याशब्देन चात्राऽखण्डं छेदश्रुतमभिधीयते ।५ । यः पुनः सूत्रार्थतदुभयानि कस्यचित् पार्श्वे गृहीत्वा तमाचार्यं निद्भुते अपलपति । अपरं कमपि विख्यातगुणमाचार्यमुद्दिशति । अथवा ब्रूयात् मया स्वयमेवाभ्यूह्य श्रुतं निर्णीतं केवलं तैर्वाचनाचार्येर्मम दिग्मात्रमेव दत्तमिति । अत्र परिव्राजकज्ञातं, तच्चेदम्- 'एगस्स ण्हाविअस्स छुरघरगं विज्जाए आगासे चिट्ठइ । तं च एगो परिवायगो बहूहिं उवासणाहिं आराहिऊण तस्स सगासे विज्जं गिण्हित्ता अन्नत्थ गंतुं तिदंडेणं आगासगएणं अच्छइ । तओ सो लोगेणं पूइज्जइ । अन्नया रन्ना पुच्छिओ-'भगवं ! किं विज्जाइसओ उआहु तवाइसओ ?' भणइ ‘विज्जाइसओ'। 'कओ आगमिओ' त्ति ? भणइ-'हिमवते पब्बए फलाहारनामस्स महरिसिस्स सगासाओ' त्ति भणिए तं 'तिदंडं खडत्ति पडिअं' एस दिटुंतो । अयमत्थोवणओ, जहा- सो पहाविअं विज्जायरिअं निण्हवितो ओहावणं पत्तो' एवं अन्नेवि अप्पगासंपि वायणायरिअंनिण्हविंता इहलोए चेव बहूणं समणसावगाईणं हीलणिज्जा भवंति, देवयाहि अछलिज्जतीति ।६। अत्र च तिन्तिणिक-चलचित्त-गाणङ्गणिक-दुर्बलचारित्राऽऽचार्यपरिभाषि- वामावर्त्त-पिशुना-ऽकृतसामाचारीक-गर्वित-प्रकीर्ण-निविन एकादशाऽपात्रभूताः A. आदि + अदृष्टभावः । B. ज्ञानप्राप्तिविषयाम् ।