________________
जइ - जीयकप्पो
मूलगुणे उत्तरगुणे पडिसेवइ पणगमाइ जा चरिमं । धिइवीरिअपरिहीणो दुब्बलचरणो अणट्ठाए' ।। एवंविधस्य छेदश्रुतार्थदाने दोषबाहुल्यं । यदुक्तम्पंचमहब्बयभेओ छक्कायवहो अ तेणगुन्नाओ । सुहसीलविअत्ताणं कहेइ जो पवयणरहस्सं' ।।
___ (बृ०क० ७७०, नि०भा० ६२०९) तेनाऽऽचार्येण पञ्चमहाव्रतभेदः षट्कायवधश्चानुज्ञातः, ये सुखशीलाऽव्यक्तानां सुखं शरीरशुश्रूषादिकं शीलयन्तीति सुखशीलाः पार्श्वस्थादयः । अव्यक्ताः श्रुतेन वयसा च । सुखशीलाचाव्यक्ताश्चेति द्वन्द्वस्तेषाम् । यद्वा-सुखे शरीरसौख्ये शीलं स्वभावो व्यक्तः परिस्पष्टो येषां ते सुखशीलव्यक्तास्तेषाम् । अथवा सुखं-मोक्षसौख्यं तद्विषयं यत् शीलं मूलोत्तरगुणानुष्ठानं ततो विगतो यत्न उद्यम आत्मा वा येषां ते सुखशीलवियत्नाः सुखशीलव्यात्मानो वा तेषामुभयत्रापि पार्श्वस्थादीनामित्यर्थः । प्रवचनरहस्यं छेदग्रन्थार्थतत्त्वं कथयति । एवं दुर्बलचारित्रो व्याख्यातः । अथाऽऽचार्यपरिभावी कश्चित् कुशिष्यः सूचया असूचया वा आचार्यं परिभवति। सूचा नाम स्वव्यपदेशेन परस्वरूपसूचनं, यथा-कोऽपि वयसा परिणतः साधुर्बालकमाचार्य ब्रवीति – अद्यापि डहरा बालका वयं किं नामास्माकमाचार्यपदस्य योग्यत्वमिति । असूचा स्फुटमेव परदोषोद्घट्टनं, यथा भो आचार्य ! त्वं तावदद्यापि डहरो मुग्धः क्षीरकण्ठो वर्त्तसे । अतः कीदृशं भवत आचार्यत्वमिति । योऽकुलीन आचार्यस्तमुद्दिश्य भणति अहो ! उत्तमकुलसम्भूता अमी योग्या एवाऽऽचार्यपदस्य, वयं तु हीनकुलोत्पन्नाः कुतोऽस्माकं सूरिपदयोग्यता । यद्वा-धिक् कष्टं यदकुलीनोऽप्ययमाचार्यपदे निवेशित इति । एवं मेघावी मन्दमेधसम्, ईश्वरप्रव्रजितो दरिद्रप्रवृजितम् , बुद्धिसम्पन्नो मन्दबुद्धिम्, लब्धिसम्पन्नो मन्दलब्धिम् आचार्यं सूचया असूचया च परिभवतीत्याचार्यपरिभावी । उक्तं चडहरो अकुलीणुत्ति अ दुम्मेहो दमगमंदबुद्धी अ । अवि अप्पलाभलद्धी सीसो परिहवइ आयरिअं' ।।
__(बृ०क० ७७२, नि०भा० ६२१०) रायणिअपारिभासी तिपाठे तु रात्निको रत्नाधिको रत्नैः ज्ञानदर्शनचारित्ररूपैः परमपुरुषार्थप्रापणप्रवणैश्चरति व्यवहरतीतीकणि रात्निको रत्नाधिक आचार्यादिस्तं प्रत्यवज्ञावचनादि परिभाषत इत्येवंशीलो रात्निकपरिभाषी। अथ वामावर्त्तः यः शिष्य आगच्छेति भणितः सन् व्रजति, व्रजेति भणितः सन् शीघ्रं समालीयते । एवमन्यदपि कार्यं यद्यथा भण्यते तत्तथा न करोति, स वामावर्त्तः । उक्तं चएहि भणिओ उ वच्चइ वच्चसु भणिओ दुअं समल्लिअइ । जं जह भणइ तं तह अकरितो वामवट्टो अ' ।।
___ (बृ०क० ७७४, नि०भा० ६२११)
थ