________________
जइ - जीयकप्पो द्रुतमपि गच्छन्न दोषः । ग्लानो वा कश्चिदागाढस्तस्यौषधानयननिमित्तं शीघ्रमपि गच्छेन्न च प्रायश्चित्तमाप्नुयात्। उन्मत्तयक्षाविष्टादिः स्थानचञ्चलत्वमपि कुर्यान्न च प्रायश्चित्तमाप्नुयादनात्मवशत्वात् । वादिनो बुद्धिं पराभवितुमलीकमपि ब्रूयात्, यथा-रोहगुप्तेन पोट्टशालपरिव्राजकमतिव्यामोहनार्थं जीवा, अजीवा, नो जीवाश्चेति त्रयो राशयः स्थापिताः। तथा पण्डकादेः शैक्षस्य व्युत्सर्जन विधेये तन्निर्भर्त्सयन्नसभ्यमपि भणेत् येनोद्वेजितः स्वयमेव गणान्निष्क्रम्य गच्छेत् । आचार्या वा कुतश्चित् प्रमादस्थानान्नोपरमन्ते ततोऽदेशकालप्रलापित्वमपि कुर्यात् । यथा क्षमाश्रमणा ! अमुकः संयतो अमुकश्च श्रावको मम पुरत इदं भणति, यथा-त्वदीया गुरवः पार्श्वस्थीभवन्तः सम्भाव्यन्ते । एतच्च मया पूर्वमपि विज्ञातमासीत्, यथा-क्षमाश्रमणानामेवमाचरतामपवादो भविष्यति । एवमुक्ते तेऽश्लोकभयेनैवोपरमन्ते । बालो वा केलिकन्दादि कुर्वाणो वार्यमाणोऽपि न निवर्तते ततोऽनूहितमपि यदपि तदपि भाषित्वा वारणीयः । प्रत्यनीकादयो वा खरपरुषादिभाषणैरुपशमयितव्याः। तथा कस्याप्याचार्यस्यापूर्वं सूत्रमर्थो वा विद्यते तस्योभयस्यापि तत्पादिनधीयमानस्य व्यवच्छेदो भवति । अतः पूर्वारब्धं शास्त्रमर्धपठितमपि मुक्त्वा तदुभयमप्यध्येतव्यमिति यथाक्रमं गतिस्थानभाषाभावचञ्चलेषु द्वितीयपदम्। एवं चलचितश्चतुर्धा प्रोक्तः । यदुक्तम्गइठाणभासभावे लहुगो मासो उ होइ इक्किके । आणाइणो अ दोसा विराहणासंजमायाए ।। दावद्दविओ गइचंचलो थाणचवलो इमो तिविहो । कुड्डादसई फुसइ भमइ व पाए व विच्छुभइ ।। भासाचवलो चउहा असत्ति अलिअं असोभणं वावि । असभाजुग्गमसन्भं अणूहिउं तं तु असमिक्खं ।। कजविवत्तिं द₹ण भणइ पुब्बिं मए उ विन्नायं । एवमिणं तु भविस्सइ अदेसकालप्पलावी अ ।। जं जं सुअमत्थो वा उद्दिष्टं तस्स पारमप्पत्तो । अण्णण्ण सुअदुमाणं पल्लवगाही उ भावचलो' ।।
(नि०भा० ६२०२ तः ६२०६) इति चलचित्तो व्याख्यातः । अथ गाणङ्गणिकस्तस्येदं स्वरूपम्-उपसंपन्नः साधुः कारणाभावे षण्मासानपूरयित्वा यद्येकस्माद् गणात् परं गणं सङ्क्रामति, षण्मास्याः परतो वा यावत् द्वादश वर्षाण्यपूरयित्वा द्वादशभ्यो वा वर्षेभ्य ऊर्ध्वं निष्कारणं गणाद् गणं सङ्क्रामति यदि, तदा गाणङ्गणिकः स्यात् । कारणे तु ज्ञानदर्शनचारित्राणामन्यतरस्मिन् पुष्टालम्बने समुत्पन्ने मध्ये द्वादशवर्षमन्तःषण्मासं वा गणाद्गणं सङ्क्रामन्नपि न प्रायश्चित्तभाग् भवति । अथ दुर्बलचारित्रः यो धृतिवीर्यपरिहीणो दर्शनज्ञानादिपुष्टालम्बनं विना मूलगुणोत्तरगुणविषयानपराधान् प्रतिसेवते, कथम् ? पञ्चकादि यावच्चरमम् । इह पञ्चकशब्देन यत्र प्रतिसेविते रात्रिंदिवपञ्चकमापद्यते स सर्वजघन्यश्चरणापराधः परिगृह्यते । आदिशब्दाद्दशरात्रिंदिवादिप्रायश्चित्तस्थानानि यावच्चरमं सर्वोत्कृष्टचरणापराधलक्षणं पाराञ्चिकप्रायश्चित्तस्थानं स एष दुर्बलचारित्रः । उक्तं च