________________
जइ - जीयकप्पो पुनः विभूषार्थं श्वेतकम्बल्यां कृष्णदवरसीवनिकां ददातीत्यादि। शय्या-प्रतिश्रयस्तस्या अपि संयोजना द्विधा-बहिरन्तश्च । तत्र बहिःसंयोजना-अकपाटमुपाश्रयं लब्ध्वा कपाटाभ्यां संयोजयति । अन्तःसंयोजना-शोभार्थं प्रतिश्रयं गोमयमृदादिना लिम्पति सेटिकया वा धवलयति। अथवा शय्याशब्देन संस्तारक उच्यते । ततश्च सुन्दरतरं संस्तारकं प्राप्य यदुत्तरपट्टमपि तदनुरूपमुत्पाद्य परिभुङ्क्ते, सा बहिःसंयोजना । यत् पुनः सुकुमारस्पर्शा) विभूषार्थं वा सुन्दरया भङ्ग्या संस्तारकं प्रस्तृणाति सा अन्तः संयोजना । तदेवमुपध्यादिविषयां संयोजनां कुर्वाणो विवक्षितवस्तुयोगाभावे तिन्तिणिको भवति । हा ! नास्त्यमुकं वस्तु अत्र स्थण्डिलनाये संनिवेशे' इत्यादि जल्पतीत्यर्थः । उक्तं चतिंबुरुअदारुअंपि व अग्गाहिअंतिडितिडेति दिवसंपि । अह दबतिन्तिणो भावओ अ आहारुवहिसिज्जा ।। अंतोबहिसंजोअण आहारे बाहि खीरदहिमाई । अंतो उ होइ तिविहा भायण हत्थे मुहे चेव ।। एमेव उवहिसिज्जा गुणोवगारी उ जस्स जं होइ । सो तेण जोअयंतो तदभावे तिंतिणो होइ' ।।
(नि०भा० ६१९९, ६२००, ६२०१ - बृ०क० ७६४,७६५, ७६६) एवं तिन्तिणिको व्याख्यातः । अथ चलचित्तः, स च चञ्चल उच्यते । स च चतुर्धा-गतिचञ्चलः स्थानचञ्चलो भाषाचञ्चलो भावचञ्चलश्च । तत्र द्रुतद्रुतगामी गतिचञ्चलः । स्थानचञ्चलस्त्रिविधः-यो निषन्नः सन् पृष्ठबाहुकरचरणादिभिः कुड्यस्तम्भादि असकृत् सृशति १, यो वा निषन्न एवेतस्ततो भ्राम्यति २, पादौ वा पुनःपुनः सङ्कोचयति प्रसारयति वा ३, स स्थानचञ्चलः । भाषाचञ्चलश्चतुर्धा-असत्प्रलापी १, असभ्यप्रलापी २, असमीक्षितप्रलापी ३, अदेशकालप्रलापी ४ । तत्राऽसत्-अलीकमशोभनं वा प्रलपितुं शीलमस्येत्यसत्प्रलापी १, असभ्यं-सभायाः धम्मत्थसत्थकुसला सभासया जत्थ सा सभा नाम । जा पुण अविहिपलुट्टा बुहेहि सा भण्णए मेली' ।। इत्युक्तलक्षणाया योग्यं यद्वचनं तत् सभ्यं, तद्विपरीतमसभ्यं 'दासचण्डाल' इत्यादिकं ग्राम्यवचनं, कर्कशं कटुकं निष्ठुरं जकारमकारादि वा तत् प्रलपितुं शीलमस्येत्यसभ्यप्रलापी २, किमिदं पूर्वापरविरुद्धं किं वा इहपरलोकबाधकमित्याद्यविमृश्य यद् वदति तद्वचनमसमीक्षितं तत्प्रलपनशीलोऽसमीक्षितप्रलापी ३, कार्यस्य विनाशं दृष्ट्वा कश्चिद् भणति-यथा मया पूर्वमेव विज्ञातमिदं कार्यमेवं भविष्यति । यथा केनचित् साधुना पात्रं लेपितं, ततो रूढं सत् कुतोऽपि प्रमादतो भग्नं, ततः कश्चिदात्मनो दक्षत्वं ख्यापयन् ब्रवीति-यदेवेदं परिकर्मयितुमारब्धं तदैव मया ज्ञातं, यथेदं निष्पन्नमपि भक्ष्यते । एष एवंविधोऽदेशकालेऽनवसरे प्रलपनशीलोऽदेशकालप्रलापी ४ । भावचञ्चलः पुनर्यत् श्रुतमारब्धं तस्य पारमप्राप्तः सन्नपरापरश्रुतद्रुमाणां सूत्रार्थलवपल्लवान् स्वरुच्या ग्रहीतुं शीलमस्येति पल्लवग्राही । एषां गतिचञ्चलादीनामाज्ञादयो दोषाः संयमात्मविराधना च । तत्र संयमविराधना-गतिचञ्चलस्य त्वरितं गच्छतः पृथिव्यादीनां कायानामुपमर्दनम्, आत्मविराधना-प्रपतनप्रस्खलनदेवताछलनादिका । एवं स्थानचञ्चलादिष्वप्युपयुज्याऽऽत्मसंयमविराधने वक्तव्ये । कारणेन तु गतिचञ्चलत्वाद्यपि न दोषाय, यथा स्तेनश्वापदभयेन
A. दास ! चण्डाल ! वा दासश्चासौ चण्डालश्च वा ।