________________
__ जइ - जीयकप्पो दस-कप्प-ववहारा संवच्छरपणगदिक्खिअस्सेव । ठाणं समवाओ वि अ अंगेए अट्ठवासस्स ।। दसवासस्स य विवाहो इक्कारसवासयस्स इमे उ । खुड्डिअविमाणमाई अज्झयणा पंच नायव्वा ।। बारसवासस्स तहा अरुणववायाइ पंच अज्झयणा । तेरसवासस्स तहा उट्ठाणसुआइया चउरो ।। चोद्दस्सवासस्स तहा, आसी विसभावणं जिना बिति । पन्नरसवासगस्स य दिट्ठिविसभावणं तह य ।। सोलसवासाईसु अ, एगुत्तरवड्ढिएसु जहसंखं । चारणभावण महसुविणभावणा तेअगनिसग्गा ।। एगूणवीसगस्स उ दिट्ठिवाओ दुवालसममंगं । संपुन्नवीसवरिसो अणुवाई सबसुत्तस्स ।। जं केवलिणा भणिअं केवलनाणेण तत्तओ नाउं । तस्सन्नहा विहाणे आणाभंगो महापावो ।।
(व्यवहारसूत्रम् – उद्देशकः १० सूत्राणि २९ तः ३५, पंचवस्तुकम् ५८३ तः ५८८, ५९०) अपात्रमयोग्यः तितिणिकचलचित्तगाणंगणिकादिः । अव्यक्तो वयसा लघुः श्रुते चाऽत्यल्पश्रुतः । चशब्दोऽनुक्तसमुच्चये । एतेषामप्राप्ताऽपात्राऽव्यक्तानां वाचनां श्रुतपाठनरूपां यो ददाति उद्देशसमुद्देशानुज्ञा वा करोति तस्य चतुर्गुरवः । तथा प्राप्तपात्रव्यक्तानां च यो वाचनां न ददाति उद्देशादींश्च न करोति तस्यापि चतुर्गुरवः ।।२३-२४।। अथानाप्ताव्यक्तयोः स्वरूपं सुखावसेयमिति तदनभिधायाऽपात्रस्वरूपं सूत्रकृदेवाह
तितिणिए चलचित्ते गाणंगणिए अदुब्बलचरित्ते । आयरिअपारिभासी वामाव? अ पिसुणे य ।।२५।।
(नि०भा० ६१९८, बृ०क० ७६२) व्याख्या-तिन्तिणिकः चलचित्तः गाणङ्गणिकश्च दुर्बलचरित्रः आचार्यपरिभाषी आचार्यपरिभावी वा वामावर्त्तश्च पिशुनश्च । तत्र तिन्तिणिको द्विधा-द्रव्यतो भावतश्च । तत्र यदग्नौ प्रक्षिप्तं तिम्बुरुकदारुवद् दह्यमानं सत् त्रटत् त्रटदिति करोति तत् द्रव्यतिन्तिणिकम् । भावतिन्तिणिकः पुनर्यो गुर्वादिभिः कृताकृतेषु किंभणितो नोदितो वा सम्पूर्णदिवसमपि त्रटत्-त्रटायते । मम संमुखमिदमिदं च जल्पितमेभिरिति झषन्नास्ते इति भावः। आहारोपधिशय्याविषयोऽपि भावतिन्तिणिकः स्यात् । स च रसतिन्तिणिकोऽपि भण्यते । तत्राहारतिन्तिणिको द्विविधो- बहिःसंयोजनया अन्तःसंयोजनया च । तत्र क्षीरदध्यादि लब्ध्वा कलमशाल्योदनादिना रसगृध्नुतया यदुपाश्रयाद् बहिः संयोजयति सा बहिःसंयोजना । अन्तः संयोजना पुनरुपाश्रयमध्ये स्यात्, सा त्रिविधा-भाजने हस्ते मुखे च । तत्र भाजने यत्र कलमशाल्योदनस्तत्र दुग्धदध्यादि प्रक्षिपति, हस्ते मण्डकादिना गुडशर्करादि हस्तस्थितं वेष्टयित्वा मुखे प्रक्षिपति । मुखविषया तु पूर्वं मुखे मण्डकादि प्रक्षिप्य शर्कराखण्डादि प्रक्षिपति । एवंविधां द्विविधामप्याहारसंयोजनां लोभाभिभूततया कुर्वन् यदा यदा संयोजनीयवस्तुयोगं न लभते तदा तदा तिन्तिणिकत्वं करोतीत्याहारतिन्तिणिक उच्यते । एवमुपधिशय्यातिन्तिणिकावपि ज्ञेयौ, यतः-उपधेरपि संयोजना द्विविधा-बहिरन्तश्च । तत्र बहिःसंयोजना-उत्कृष्टं कल्पं लब्ध्वा चोलपट्टकमप्युत्कृष्टमुत्पादयति, और्णिकं वा कल्पं सुन्दरं लब्ध्वा तदनुरूपमेव सौत्रिकमुत्पादयति, उत्पाद्य च तदुभयपरिभोगेन संयोजयति । अन्तःसंयोजना