________________
जइ - जीयकप्पो गतं व्युत्सर्गाहम् । तपोऽर्हमभिधीयते
उद्देसज्झयणसुअखंधगेसु कमसो पमाइस्स। कालाइक्कमणाइसु नाणायाराइआरेसु ।।२३।। भिन्न-लहु-गुरु-लहुगा णगाढि पयवुढिगाढि अत्थे अ।
अपत्तापत्तावत्त-वायणुद्देसणाइसु अ।।२४।। व्याख्या-इह तपोऽर्हप्रायश्चित्ते ज्ञानदर्शनचारित्रतपोवीर्याचारपञ्चकसत्कमतीचारचक्रमालोच्यम् । तत्राऽऽद्यो ज्ञानाचारस्यातिचारो ज्ञानाचारातिचारः सोऽष्टविधः, तद्यथा-अकाले अस्वाध्यायिके वा स्वाध्यायकरणं कालातिचारः ।१। श्रुतमधिजिगांसोर्जातिमदावलेपेन गुरुषु विनयो वन्दनादिरुपचारस्तस्याऽप्रयोजनं हीलनं वा विनयातिचारः ।२। श्रुते गुरौ वा बहुमानो हार्दः प्रतिबन्धविशेषस्तस्याकरणं बहुमानातिचारः ।३। उपधानं आचामाम्लादितपसा योगविधानं तस्याकरणमुपधानातिचारः ।४। यत्पार्श्वे श्रुतमधीतं तं निद्भुते अपलपति, अन्यं वा युगप्रधानमात्मनोऽध्यापकं निर्दिशति, स्वयं वाऽधीतमित्याचष्टे, एष निवाभिधानोऽतिचारः ।५ । व्यज्यतेऽर्थोऽनेनेति व्यञ्जनमागमः सूत्रं तन्मात्राक्षरबिन्दुभिरूनमतिरिक्तं वा करोति, संस्कृतं वा विधत्ते, पर्यायैर्वाऽभिदधाति, यथा- 'धम्मो मंगलमुक्किट्ठ' मित्यादिस्थाने 'पुण्णं कल्लाणमुक्कोसं दया संवरनिज्जरे'ति व्यअनातिचारः ।६। आगमपदार्थस्याऽन्यथा परिकल्पनमातिचारः, यथा-आचारसूत्रे अवन्त्यध्ययनमध्ये 'आवंती केयावंती लोगंसि विप्परामुसंतीति । यावन्तः केचन लोकेऽस्मिन् पाखण्डिलोके विपरामृशन्तीति प्रस्तुतेऽर्थेऽन्योऽर्थः परिकल्प्यते-'आवंति-जनपदे केया-घटीमाला वाता-पतिता तां लोकः परामृशति कूपे ।७। यत्र च सूत्रार्थों द्वावपि विनाश्यते स तदुभयातिचारो, यथा-'धम्म मंगलमुक्कट्ठा अहिंसा गिरिमत्थए । देवावि तस्स नस्संति जस्स धम्मे सया मसी' ।८। अयं च महीयान् अतिचारो, यतः सूत्रार्थोभयनाशे चारित्रनाशः, तन्नाशे मोक्षाभावः, तदभावे दीक्षावैयर्थ्यमिति । एष चाष्टविधोऽपि ज्ञानाचारातिचारो द्विधा-ओघतो विभागतश्च । तत्र विभागत उद्देशकाऽध्ययनश्रुतस्कन्धाङ्गेषु विषये प्रमादिनः प्रमादपरस्य कालातिक्रमणादिष्वष्टसु ज्ञानाचारातिचारेषु क्रमशः क्रमेण तपो भिन्नं लघुगुरुलघुका अनागाढे दशवैकालिकादिश्रुते उद्देशकातिचारेऽकालपाठादिके भिन्नमासः अध्ययनातिचारे मासलघु, श्रुतस्कन्धातिचारे मासगुरु, अङ्गातिचारे चत्वारो लघव इत्यर्थः । आगाढे तूत्तराध्ययन-भगवत्यादिके एतेष्वेवातिचारस्थानेषु पदवृद्धिः कार्या, लघुमासादि चतुर्गुरुकान्तमित्यर्थः । अर्थे च अर्थश्रवणेऽप्युद्देशकालातिक्रमणादिष्वतीचारेषु लघुमासादि चतुर्गुरुकान्तमेव तपो भवति, अप्राप्ताऽपात्राऽव्यक्तवाचनोद्देशनादिषु च । यत्र व्रतपर्याये यत् श्रुतमधीयते तदाश्रित्य तं व्रतपर्यायमनासादयन्नप्राप्तः । श्रुताध्ययनपर्यायश्चायम्तिवरिसपरिआयस्स उ आयारपकप्पनाम अज्झयणं । चउवरिसस्स उ सम्मं सूअगडं नाम अंगंति' ।।
(पंचवस्तुकम् ५८२)