________________
जइ - जीयकप्पो
भत्ते पाणे सयणासणे य अरहंतसमणसिज्जासु । उच्चारे पासवणे पणवीसं हुति ऊसासा ।।१९।।
व्याख्या - भक्ते भक्तविषये, पाने पानविषये, शयनासनयोः शयनीयविष्टरयोर्वा प्रार्थनाय । अर्हतां श्रमणानां च शय्या अर्हच्छ्रमणशय्यास्तासु चैत्यालयोपाश्रयरूपासु एतेषु हस्तशतात्परतो गमनागमनयो:, उच्चारे प्रश्रवणे हस्तशतमध्येऽपि त्यक्ते सति हस्तमात्रेऽपि रेल्लके जाते कायोत्सर्गे क्रियमाणे पञ्चविंशतिरुच्छ्वासा भवन्ति । इतः पाश्चात्यायां गमणागमणे' त्यादिगाथायां सामान्येन कायोत्सर्गः प्रायश्चित्तमुक्तम् ।। १९।। ततश्च किंविषयः कायोत्सर्गः कियदुच्छ्वासपरिमाणः कार्य इति प्ररूपणार्थं गाथात्रयमाहहत्थसयबाहिराओ गमणागमणाइएस पणवीसं ।
पाणिवहाई सुमिणे सयमदृसयं चउत्थम्मि ।। २० ।। देसिअराइअपक्खिअ - चाउम्मासवरिसेसु परिमाणं । समद्धं तिन्नि सया पंचसयट्टुत्तरसहस्सं । । २१ ।। उद्देससमुद्देसे सत्तावीसं तहा अणुन्नाए । अट्ठेव य ऊसासा पट्टवणपडिक्कमणमाई ।। २२ ।। व्याख्या- - पूर्वार्द्धं कण्ठ्यम् । नवरमादिशब्दाच्चतुर्विधनौ - नदीसन्तारे च पञ्चविंशत्युच्छ्वासमानः कार्यः । प्राणिवधादि स्वप्ने करणकारणानुमतिभिः स्वप्नमध्ये प्राणिवधादौ कृते सति शत' मिति शतोच्छ्वासमानम्, अष्टतं चतुर्थ' इति चतुर्थे मैथुनस्वप्नेऽष्टशतम् अष्टोत्तरशतोच्छ्वासमानं कायोत्सर्गं कुर्यादित्यर्थः । तथा इह यथासङ्ख्यमुच्छ्वासपरिमाणं ज्ञेयम् । दैवसिकप्रतिक्रमणे पश्चिमकायोत्सर्गत्रिकस्याऽऽद्ये द्वौ चतुर्विंशतिस्तवौ चिन्त्येते । शेषद्वयोस्त्वेकैकः । स च पञ्चविंशतिपदात्मकः पञ्चविंशत्युच्छ्वासः समाप्यते । ततश्चतुर्विंशतिस्तवचतुष्टयेनोच्छ्वासशतं भवति । रात्रिकप्रतिक्रमणे त्वाद्यकायोत्सर्गद्वयेऽप्येकैक चतुर्विंशतिस्तवचिन्तनात् 'अर्द्ध' ति शतार्द्धं पञ्चाशदुच्छ्वासा भवन्तीत्यर्थः । पाक्षिककायोत्सर्गे ते द्वादश चिन्त्यन्ते, ततो द्वादशगुणिताः पञ्चविंशतिस्त्रीणि शतानि भवन्ति । चातुर्मासककायोत्सर्गे ते विंशतिश्चिन्त्यन्ते, ततो विंशतिगुणाः पञ्चविंशतिः पञ्चशतानि जायन्ते । वार्षिकप्रतिक्रमणकायोत्सर्गे च चत्वारिंशच्चतु - र्विंशतिस्तवाश्चिन्त्यन्ते, ततश्चत्वारिंशद्गुणाः पञ्चविंशतिः सहस्रमुच्छ्वासानां भवति । तस्योपरि च बहुः कालो निर्विघ्नो गत इति मङ्गलार्थमष्टोच्छ्वासमानः पञ्चपरमेष्ठिनमस्कारश्चिन्त्यते, ततोऽष्टोत्तरसहस्रं भवति । उद्देशः सूत्रवाचनादानम् । समुद्देशोऽर्थदानम् । अनुज्ञा परं प्रति सूत्रार्थदानानुमतिः । तथेत्यनुक्तसमुच्चये। तेन श्रुतस्कन्धाङ्गपरावर्त्तनोत्तरकालं च सप्तविंशत्युच्छवासः कायोत्सर्गः । तत्र सप्तविंशतिपदात्मकस्य चतुर्विंशतिस्तवस्य चिन्तनीयत्वात् । तथा प्रस्थापनप्रतिक्रमणादिषु । प्रस्थापनं स्वाध्यायस्य, प्रतिक्रमणं कालस्य, तयोः करणे, आदिशब्दादनुयोगप्रारम्भविसर्जनयोः दुर्निमित्तस्वप्न शकुनादिप्रतिघातार्थं च कायोत्सर्गेऽष्टै— वोच्छ्वासाः । नमस्कारचिन्तनेनाऽष्टोच्छ्वासः कायोत्सर्गः कार्य इत्यर्थः ।।२०- २१-२२।।