________________
जइ - जीयकप्पो पिंडोवहिसिज्जाई गहिअं कडजोगिणोवउत्तेण ।
पच्छा नायमसुद्धं सुद्धो विहिणा विगिंचिंतो ।।१६।। व्याख्या-पिण्डः सङ्घातोऽशनपानखाद्यस्वाद्यभेदभिन्नः । उपधिरौधिक औपग्रहिकश्च प्रागुक्तरूपः । शय्या उपाश्रय, आदिशब्दादौषधतृणलेष्टुक्षारमल्लकादिग्रहः । ततः पिण्डोपधिशय्यादिकं कृतयोगिना गीतार्थेन सूत्रतोऽर्थतोऽपि चाऽधिगताशेषतत्समयवर्त्तमानश्रुतेन । उपयुक्तेन दत्तोपयोगेन गृहीतं पश्चाद् ग्रहणानन्तरम् उद्गमोत्पादनैषणाद्यन्यतरदोषदुष्टत्वेनाऽशुद्धमिति ज्ञातं निर्णीतम् । विधिना अनापाताऽसंलोकादौ स्थण्डिले विगिञ्चन् परित्यजन् शुद्धो निर्दोषो भवति ।।१६।। तथा
कालाद्धाणाइछिअ-मणुग्गयत्थमिअगहिअमसठेण ।
कारणगहिउवरिअं भत्ताइ विगिचयं सुद्धो ।।१७।। व्याख्या-कालाधाऽतिक्रान्तं प्रहरद्वयादूर्ध्वं ध्रियमाणं कालातिक्रान्तम्, अर्द्धयोजनातिरेकादानीतं चाध्यातिक्रान्तम्। तच्च साधूनामपरिभोग्यम् । आह-साधूनामुपयुक्तत्वात् कथं कालाध्वातिक्रान्तसम्भवः ? सत्यं, सम्भवत्येव ग्लानादिहेतोः त्यक्तुं वा स्थण्डिलं न स्यात्, सागारिका वा तत्र स्युः, चौरादिभयं वा तत्र स्यादिति । अथ अनुद्गताऽस्तमितगृहीतमशठत्वेन मेघमहिकारजोराहुभिरावृते भास्वति प्रातरुद्गतबुझ्या सन्ध्यायां चानस्तमितबुद्ध्या गृहीतम्,पश्चाच्चाऽकाले गृहीतमिति ज्ञातम् । तथा कारणगृहीतोवृतं बालग्लानाऽऽचार्यप्राघुर्णकदुर्लभद्रव्यसहसालाभादिना कारणेन गृहीतस्य विधिना च भुक्तस्योवृतं भक्तादि अशनपानखाद्यस्वाद्यरूपम्, अशठः श्रुतोक्तः स्थण्डिले विगिधन् त्यजन् शुद्धः । कोऽर्थः ? कालातिक्रान्तादीनां सर्वेषां विवेकार्हप्रायश्चित्तेनैव शुद्धिर्भवति ।।१७।। उक्तं विवेकार्हम् । व्युत्सर्गार्हमुच्यते
गमणागमणविहारे सुअंमि सावज्जसुमिणयाईसु ।
नावानइसंतारे पायच्छित्तं विउस्सग्गो ।।१८।। व्याख्या-गमनागमनविहारे हस्तशताद् बहिर्गमनागमनादौ, विहारे स्वाध्यायार्थं कन्दरोद्यानादौ गमने, श्रुते श्रुतविषये उद्देशानुज्ञाप्रस्थापनप्रतिक्रमणश्रुतस्कन्धाङ्गपरिगुणनादिष्वविधिना विधाने, सावयस्वप्नादिषु प्राणातिपाताचं येषु स्वप्नेषु कृतं स्यात्तेषु, आदिशब्दा(निमित्तसूचकेषु स्वप्नेषु, नौनदीसन्तारे । तत्र नौश्चतुर्धा-आद्या समुद्रगामिनी समुद्रे १, अन्यास्तिस्रो नद्यां प्रतिश्रोतोगामिनी, अनुश्रोतोगामिनी, तिर्यग्गामिनी च, अन्त्या या नदीं छिन्दती याति । नदीसन्तारो-नद्युत्तारणम् , स चतुर्धा-तत्र जङ्घार्द्धदध्नोदकः सङ्घट्टः १, नाभिद्वयंसोदको लेपः २, तदूर्ध्वं जलो लेपोपरिः ३, बाहुभ्यामुडुपाद्यैर्वा चतुर्थः । सर्वेष्वेतेषु प्रायश्चित्तं कायोत्सर्गः । तथाA. शेषम् । B. द्वयस = सुधी पहोचतुं' इति भाषायाम् ।