________________
जइ-जीयकप्पो
३। भावापत् ग्लानत्वादि ४ । ततः सम्भ्रमभयातुरापद्भिः कारणैः सहसाकाराना भोगौ प्राग् व्याख्यातौ, ताभ्यां च । अनात्मवशकः परवशः, वाशब्दाद् भूताद्याविष्टश्च तस्य सर्वव्रतातिचारे सति, ते चैवमतीचाराःहस्तिसम्भ्रमाद्यैः पलायमानः ' पृथिवीजलानलानिलहरितद्वित्रिचतुष्पञ्चेन्द्रियाँश्चरणघातादिना ताडयन् पादपाद्यारोहणेन प्राणातिपातविरतिं विराधयेत्, मृषाविरतिं कूटसाक्ष्यादिना, अदत्तविरतिं अप्रभोः स्तैन्येनाऽशनादि ददतो ग्रहणेन, मैथुनविरतिमतिक्रमादिना, परिग्रहविरतिं मूर्च्छादिना, रात्रिभोजनविरतिं दिवागृहीतादिभङ्गकैः । अध्वकल्पो दूरतममार्गे व्रजतां घृतमिश्रकणिक्काद्याऽऽदानरूपः तं विदध्यात्, लेपकृतं क्षीरान्नादि तदुत्सर्गतो न ग्राह्यम् क्वचित्तद् भुञ्जीतेत्याद्या मूलगुणविषयाः । एवमुत्तरगुणेष्वपि ज्ञेयाः । इत्थमतिचारजाते सञ्ज सति, तथा आशङ्कते चैव यदतीचारस्थानं कृतमकृतं वेति निश्चेतुं न शक्नोति तस्मिँश्च दर्शनज्ञानचारित्रतपःप्रभृतिसर्वपदविषये तदुभयं तदुभयार्हं प्रायश्चित्तम् । एकं गुरोरालोचना, द्वितीयं गुरुसन्दिष्टेन मिथ्यादुष्कृतदानं प्रतिक्रमणार्हाख्यमित्येतदुभयं शुद्धिकरम् ।। १३ ।। किञ्च
दुच्चिति दुब्भासिअ दुच्चिट्ठिअ एवमाइअं बहुसो ।
उवउत्तो वि न याणइ जं देवसिआइ अइआरं । । १४ ।।
व्याख्या
- दुश्चिन्तितं च कोङ्कणार्यकवद् दवदानचिन्तना, दुर्भाषितं वा असद्भूतोद्भावनम्, दुश्चेष्टितं च धावनादि, दुश्चिन्तित - दुर्भाषित - दुश्चेष्टितम् । एवमादिकम् अन्यदप्येवंप्रकारं दुष्प्रतिलेखित - दुष्प्रमार्जितादि, बहुशोऽनेकशः उपयुक्तोऽपि उपयोगवानपि यद् दैवसिकातिचारादि, आदिशब्दाद् रात्रिकपाक्षिकचातुर्मासिकसांवत्सरिकादि च पूर्वकालकृतमालोचनाकाले न स्मरति, तस्याप्यतिचारजातस्य शोधकम् अस्यां गाथायामनुक्तमपि प्रस्तावात्तदुभयार्हमेव ज्ञेयम् ।।१४।। किं बहुना —
सव्वेसु वि बीअपए दंसणनाणचरणावराहेसु ।
आउत्तस्स तदुभयं सहसाकाराइणा चेव । । १५ ।।
"
व्याख्या - प्रथमं पदमुत्सर्गस्तदपेक्षया द्वितीयं पदमपवादस्तस्मिन्नुपस्थिते सति आयुक्तस्य कारणेन यतनया गीतार्थस्यापराधपदान्यासेवमानस्य, सहसाकारादिना चैव । आदिशब्दादना भोगग्रहणे सहसाकाराऽनाभोगाभ्यां च, सर्वेष्वपि दर्शनज्ञानचरणापराधेषु तदुभयं प्रायश्चित्तम् । अत्राह शिष्यः - खलिअस्स य सव्वत्थ वी ' ( अस्मिन् ग्रन्थे मूलगाथा ११ ) त्यत्र दर्शनज्ञानचरणादिपदेषु सर्वेषु स्खलितस्य प्रतिक्रमणार्हमभिधाय तेष्वेवेह कथं तदुभयार्हमभिधीयते ? । गुरुराह - तत्र हिंसामनापद्यमानस्येत्युक्तम् । इह तु हिंसाद्यापन्नस्याऽप्याऽऽयुक्तस्य तदुभयार्हेण शुद्धिरिति न विरोधः ।। १५ ।। अधुना विवेकार्हं भण्यते—